________________ 200 नयचक्रम् / [विधिविधिनयेत्वात् ततो भावघटस्याभिन्नत्वात् / घटाद्वा भावस्याभिन्नत्वात् / तद्व्याचष्टे तद्भावत्वात् तस्यापि भावत्वात् तद्भावत्वात् , पर्यायान्तरेण / हेत्वन्तरं वा घटोऽपि भाव एव चाभिन्नत्वात् / यो यो भावः स स तद्हणेन गृह्यते / दृष्टान्तो देशखात्मवत् / तस्य देशस्य स्वात्मा देशस्य भावः खं तत्त्वं भावादभिन्नत्वात् तद्भावाद् गृह्यते भाववत् तथा देशग्रहणे समस्तो भावः तद्भावत्वाद् गृह्यते / एतद्भावनार्थमाह-तस्य ह्येकोऽपि प्रर्थनं प्रतिदेशः। हिशब्दो यसादर्थे / यस्मात् तस्यैकोऽपि देशः प्रख्यान् सर्वाविभक्तभवनवृत्त्यात्मकत्वात् सर्वेण समस्तेन भावेनाविभक्तो भवनमित्येवैको वृत्तिमनुभवत्यात्मरूपामिति / सोऽपि देशः सर्वभावात्मा प्रागुक्तप्राण्याद्यवयवपुरुषात्मत्ववत् / अत आह-तस्य ह्येकोऽपि प्रथनं प्रतिदेशः सर्वाविभक्तभवनवृत्यात्मकत्वात् सार्वरूपमनतिक्रान्तः / ततोऽनेन न्यायेन देशग्रहणे समस्तग्रहणमित्यभेदपक्ष एव दर्शनं नान्यथेति / नत्वेकदेशश्च स एव वेति विप्रतिषिद्धमिति चेत् तत्र ज्ञायमानत्वापेक्षयोक्तत्वात् / त्वन्मत्या सावयवादर्शनं नान्यच्चेति / नन्वेकदेशे सावयव इव निरवयवोऽपि प्रख्यातीति मया तथोकं परमार्थतस्तु निर्विभाग एवासावुक्तो वक्ष्यते च / अथवा प्रथनं विस्तारो विस्तीर्णत्वात् तस्य भावस्य प्रथनं देशं प्रतीत्य देशः तस्माच्चापि विभक्त इत्युक्तम् / अत आह-न चास्योध्वाधस्तियदिक्षु मूर्तिविवर्तप्रत्यङ्गान्यनेकत्वाभिमतभेदवत् कचिदवच्छेदो विद्यते दक्षिणोत्तरयोरपि / किमु घटपटयोर्भवनैकमूर्तिविवर्तानवच्छेदात् इति यथैकत्वाभिमतस्य भेदस्य घटादेः मूर्तेः शरीरस्य विवर्तानां विभागानामूर्वाधस्तिर्यदिक्तयाङ्गाऽवयवतया नापरः / किन्तु प्रत्यङ्गतया च पुरुषपाण्यादिवत् कपालादित्वेनाभासमानानामेकान्ताभेदः / चक्षुरादिग्राह्याभिमत एकत्वानिर्विभागस्तथाभावविवर्तप्रत्यङ्गानां तदेकत्वानिर्विभागस्तसादावस्य न कचित्तदभिमतभेदवदेकत्वादवच्छेदो विद्यत इति / यदि घटादित्वेन यदि रूपादित्वेन त्वदिष्टभेदवदेव / इतिशब्दो हेत्वर्थे / यस्मात् विभागावच्छेदाभावाद्धेतोः स भावो ध्रुवस्त्रिष्वपि कालेषु कूटस्थो माषराशिस्थमाषवत् सर्वेपैकीभूत एव / अविचाली न स्थानात् स्थानान्तरं सामति / अनपायोपजनः कोष्ठागारवन्निगेमप्रवेशानपायोपजने भावस्य न स्तः / अविकायपि स्वस्थानस्थस्यापि नर्तकीभ्रूक्षेपादिवद्विकाराभावात् / अनुत्पत्तिः प्रागभूत्वा घटादिवदुत्पत्यभावात् / अवृद्धिरङ्कुरपत्रवदुपचयाभावात् , अव्ययो वृक्षादिपत्राद्यवयवखेण्डादिवद्ययाभावात् / एतानि हि नित्यविशेषणानि भावस्यैव घटन्ते न पुरुषादी १°मं घ। २°कवृघ। ३त्रे घ। ४°वस्तुनि ग। 5 दोषः ग। 6 मेग / 7 मधुरयो घ विशेषः। 8 कोक्त्या ग। 9 नौ घ। 10 °घटाग। 11 दृश्यतां 'ध्रुवं कूटस्थमविचाल्यनपायोपजनाविकार्यनुत्पत्यवृद्धयव्यययोगि' (पा०म०भा०पृ० 59)