________________ विवर्त्तवादः] न्यायागमानुसारिण्यलङ्कृतम् / 201 नाम् अत्र भावे ध्रुवादिनित्यलक्षणयोगः परपरिकल्पितभेदासम्भविधर्मत्वेन व्याख्यातः / स्वरूपतो निदर्शनाभावात् / उक्तवदिति च पूर्वोत्तरोत्पत्तिविनाशवस्तुप्रविभागाभावात् युक्तो नित्यैकसर्वात्मकत्वातिदेशः / किं चान्यत्-अस्य प्रत्यक्षप्रमाणसिद्धिरिहैवाभिन्नभावपक्षे प्रत्यक्षत्वाद्भावस्याप्रत्यक्षं प्रमाणं सिद्ध्यति / उक्तवदिति वर्तते / यथोक्तम्-'तस्य ोकोऽपि प्रथनं प्रतिदेशः सवोविभक्तभवनवृत्त्यात्मकत्वात् सार्वरूप्यमनतिक्रान्तः। ततस्तद्भावत्वात् ततो भिन्नत्वात् तस्य य एकदेशस्तस्य ग्रहणे तस्यैव ग्रहणम् / देशस्वात्मवत्' इत्युक्तं भावप्रत्यक्षत्वम् / ततः सर्वप्रमाज्येष्ठप्रत्यक्षप्रमाणसिद्धिरिहैव यथार्थवस्तुविषयत्वात् / अन्यत्रानुमानतैव भावे / वस्तुपक्षादन्यत्र भेदपक्षेऽनुमानतैव प्रत्यक्षाभिमतस्यापि / किं कारणम् ? / सम्बन्धैकदेशप्रत्ययशेषसिद्ध्यात्मकत्वात् / द्वयोः सम्बन्धयोः सम्बन्धे तदेकदेशप्रत्यक्षत्वे तत्प्रत्ययाच्छेषसिद्धिरात्मानुमानस्येति / तदात्मकं तत् / सम्बद्धकदेश इति वा पाठः / यथोक्तम्'सम्बद्धादेकस्मात् प्रत्यक्षाच्छेषसिद्धिरनुमानम् / ' सम्बद्धानां भावानां स्वभावेन चेत्यादिसप्तविधेन कश्चिदर्थः कस्यचिदिन्द्रियस्य प्रत्यक्षो भवति, तस्सादिदानीमिन्द्रियप्रत्यक्षाच्छेषस्याप्रत्यक्षस्यार्थस्य या सिद्धिरनुमानं तत् / यथा धूमदर्शनादग्निरिति ज्ञानम्, तथात्मेन्द्रियमनोऽर्थसन्निकर्षजपूर्वकं त्रिविधं पूर्ववदित्यादिलक्षणमेव तत्र सम्भवति / देशग्रहणस्याऽऽराद्भागविषयस्याशेषतद्वस्त्वसंस्पर्शात् / एकदेशग्रहणेन शेषग्रहणमनुमानमेव / तस्यानुमानत्वेऽपि मा स्थिरां बुद्धिं कार्षीरित्यत आह-कुतोऽनुमानतापि? प्रोक्तंन्यायेन प्रत्यक्षत्वासिद्धेः / कथमिति चेत् ? सम्बन्धयोः कदाचिदप्यग्रहणात् / प्रत्यक्षकाले हि सम्बन्धयोर्युगपग्रहणादुत्तरकालमेकदेशग्रहणाद्विशेषणादवगम्यमनुमानं स्यात् , तदेव तु प्रत्यक्षदर्शनं नास्तीत्युक्तम् / प्रत्यक्षपूर्वत्वे तत्सम्भवात् प्रत्यक्षसिद्धौ तद्वलेनानुमानसिद्धिः सम्भाव्यते / तदभावे तदसिद्धिः / प्रत्यक्षत्वासिद्धरनन्तरोक्तत्वादेव कुतोऽनुमानतापि ? / इतरो निराशीभूत आह-तत्किमज्ञानमेवापद्यते / ' आचार्य आह-कुतोऽज्ञानमपीति / अज्ञानमपि तन्न भवति त्वदभिमतं प्रत्यक्षम् / कुतः ? प्रत्यक्षपूर्वकाज्ञानत्रयेऽन्तर्भावात् , संशयविपर्ययानध्यवसाया अज्ञानविकल्पाः / ते च प्रत्यक्षज्ञानपूर्वकाः / संशयस्तावत् सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षात् , विशेषस्मृतेश्च संशयः / तथा समानानेकधर्मोपपत्तेविप्रतिपत्रुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशय इति / सामान्य१ त्ति ग। 2 °नेनै ग / 3 °स्यानुराग ग / 4 प्राक्तन ग / 5 न्य° ग / 6 °द्ध घ / नच०२६