________________ 203 नयचक्रम् / [विधिविधिनयेविशेषयोः प्रत्यक्षपूर्वकत्वे समानानेकधर्मत्वादीनि विशेषणानि स्युर्नान्यथा स्थाणुपुरुषादिष्विति संशयनीयार्थाभावान्न संशयः / तत एव विपर्ययेण भव्याभावान्न विपर्ययस्त्वन्मतेनैवेत्यत आह-संशयनीयविपर्यये भव्यविषयप्रत्यक्षात्यन्ताभावात् / अनध्यवसायोऽध्यवसायपूर्वः, स चाधिको वावसायोऽध्यवसायः / प्रत्यक्षज्ञानमेतदभावस्योक्तत्वात् / नाध्यवसायोऽनध्यवसाय इत्यधिकावसायासम्भवाच तव्यावृत्तिविषयानध्यवसायासम्भवात् कुतोऽनध्यवसायः? / तस्मात् यदुक्तम्'पुंढवीकायिकादिजीवा अचामूढत्तमवि पचिहइ'इत्यादि तत्सत्यम् / अन्वाह चेति तस्मिन् जिनप्रवचनप्रसिद्धाभेदभावनिर्विकल्पविधिविधिनयदर्शने भेदाभावप्रत्यक्षानुमानसंशयविपर्ययानध्यवसायासम्भवमनुवर्तमानोऽन्योऽप्याह-यथा विशुद्धमाकाशमिति / दृष्टान्तसमर्थनं तिमिरोपप्लुतदृष्टेविशुद्धे नभसि केशोण्डुकमशकमक्षिकामयूरचन्द्रिकालिमालाभिरवयवैर्विततमिति निरवयवेऽप्यसङ्कीर्णे सङ्कीर्णदर्शनं भवति तथेदमिति दार्टान्तिको भावैकपरमार्थः / अमरणादमृतमविनाशात् / बृहवाद्ब्रह्म निर्विकारं निस्तिमिरं व्योमवदवस्थितम् / नपुंसकनिर्देशः सर्वभेदाभिमतासद्विकारसाधारणत्वात् 'अव्यक्ते गुणसन्देहे नपुंसकलिङ्गप्रयोग'वचनात् / भवनापेक्षया वा नपुंसकम् / अकलुपमपि सदविद्यया ज्ञानाभासेन कलुषत्वमिवापन्नमनापन्नमप्यभेदरूपं सद्भेदरूपमाभाति / एवं तावदमलं मलरूपेणाभातीत्युक्तम् // इदानीमेकं सदनेकधा प्रविभज्यत इति ब्रूमः / तस्यैकमपीत्यादि / यथोदन्वतां तोयमुत्पातेऽङ्गारराशिवत् प्रज्वलदुपलक्ष्यते, तस्यानेकरूपता मिथ्यैव प्रकृतित्वमिति / प्रकर्षेण कृतिः प्रकृतिः, घटपटादिपरो भेदः / तद्भावमनापन्नमेव विकारांस्तांस्तानेव घटपटादीनात्मभावादप्रच्यवने नर्तनकरहस्तभ्रूक्षेपादिकल्पान् करोति / स स्वतः स्वात्मानं भाव एवाकाररूपेण सृजति उपसंहरति च / को दृष्टान्तः ? ऋतुधर्मवत् ऋतूनां धर्मः इन्द्र इव निर्मलमाकाशं दृष्ट्वा वक्तारो भवन्ति महावर्षस्य गर्भ इति / कुतो निर्मले नभसि वर्षसम्भवः / तथापि तन्नैर्मल्याविनाशनेनैव शक्रः शक्रकार्मुकशतबदमहाधनस्तनितवर्षितकरकाधारावर्षादीन् सृजत्युपसंहरति चेत्युच्यते / क्षणेनैव पुनस्तादृग्वैमल्यदर्शनान्नभसः। यथेयमृतुधाम्नः सृष्टिः शुद्धगगना पृथग्भूतजलप्रकृतित्वाभिमतमेघादिरूपा तथा सर्वघटादिगवादिरूपा सृष्टि वादेवोपसंहारश्चेति भावः // ॥विधिविधिनयः समाप्तः॥२॥ एवं तावद्वस्त्वर्थतो विधिविधिनयविकल्पाः पुरुषनियतिकालस्वभावभावा व्याख्याताः / अनया दिशा शब्दब्रह्मविधिनयग्रहायेककारणवादा उन्नयनीयाः / 1 त एव घ। 2 पृथिवीकामिकादिजीवा..................। 3 कादिमात्राभि / 4 क्रमःग। घ। 5 तथास्याग। ६°वग। ७°धामेव घ। ८वामेन्द्र ग-घ।