________________ विवर्त्तवादः] न्यायागमानुसारिण्यलङ्कृतम् / इदानीं तेषु शब्दार्थो वक्तव्यः / स च सामान्येनोच्यते, सर्वेषां तुल्यत्वात् / स च द्विविधः-पदार्थो वाक्यार्थश्च / तत्र पदार्थस्तावत् एषु विधिविधिनयेष्वविकल्पः शब्दार्थ उक्तेषु पुरुषावादिष्ववस्थाभ्युपचरितप्रक्रियाभेदकल्पितविकल्पासत्वात् तद्वस्तुनिर्विकल्पत्वात् / नन्वित्यादिना ज्ञानतः सर्वस्यैकत्वाद्यस्य कस्यचिज ज्ञाने सर्वस्य ज्ञातत्वात् / एतेन वक्तृत्वाद्यसमन्वयो व्याख्यातो दृष्टान्ताभावात् / सर्वस्य सर्वज्ञत्वात् , भेदाभावात् / एतमर्थमन्योऽप्यत्राह-शास्त्रेषु प्रक्रियासांख्ययोगवैशेपिकवेदशिरःप्रभृतिषु नृप्रकृतिपुरुषद्रव्यगुणादिनित्यानित्याद्वैतद्वैतत्रैतादिपदार्थप्रक्रियाभेदैर्विकल्पात्मकपदार्थप्रणयने यथाप्रतिक्रियमविद्यैवोपवर्ण्यते विकल्पस्यावस्तुत्वात् / विद्या तु तत्त्वज्ञानं साऽऽगमविकल्परूपा न भवितुमर्हति वाग्गोचरातिक्रान्तत्वात् / तत्त्वज्ञानविषयानन्तात्मकैकपरमार्थस्य / यथोक्तम्-'पण्णवणिजा भावा' इत्यादि आगमाभ्यासात् तु सम्यग्दर्शनज्ञानचारित्रतपोविशेषविशेषिताविद्यस्य सर्वभावविषया विद्या स्वयमेव स्वात्मनैवोपवर्तते नाविद्यमाना कुतश्चिदानीयते / सा चानागमविकल्पतेत्यत आह . 'अनागमविकल्पा तु स्वयं विद्योपवर्तते।' इति / तथा चान्यः- 'विकल्पयोनयः शब्दा विकल्पाः शब्दयोनयः / तेषामत्येन्तसम्बन्धो नार्थान् शब्दाः स्पृशन्त्यपि // ' शब्दा इति शब्दागमानुमानप्रतिपत्तिहेतव इत्यत आह-ये त्वेते घटादिशब्दा मेघस्तनितवदेते शब्दा एव केवला नार्थस्वरूपस्य वाचकाः। घटादिप्रतिपादनसमर्था अभिमता न प्रतिपादका इत्यर्थः / नन्विदं प्रसिद्धप्रस्तुतव्यवहारविरुद्धं त्वयोक्तम् , अर्थस्याप्रतिपादका घटादिशब्दा मेघस्तनितवत् श्रोत्रग्राह्यत्वादिति / घटादिशब्दा इति च त्वद्वचनादेव तेषां घटाद्यर्थप्रतिपादनदर्शनादिति / अत्रोच्यते-न ब्रूमः प्रतिपादका इति / किं तर्हि ? वाचका इति ब्रूमः / प्रतिपत्तृसङ्केतवशात् तदुपलक्षणत्वेन प्रतिपादकत्वं विकल्पात्मार्थविषयं न विरु1 °षु विग। 2 °न ग। 3 क्रमतत्त्वात् ग। 4 सम्पूर्णा गाथा त्वेवम् पण्णवणिजा भावा घण्णाण सपजया तओ थोवा / सेसा परपज्जाया तोऽणतगुणा निरभिलप्पा // 141 // पण्णवणिजा भावा अणंतभागो उ अणभिलप्पाणं / पण्णवणिज्जाणं पुण अणंतभागो सुअनिबद्धो ॥-आव०नि० 488 छाया-प्रज्ञापनीया भावा वर्णानां स्वपर्ययास्ततः स्तोकाः / शेषाः परपर्यायास्ततोऽनन्तगुणा निरभिलाप्याः // प्रज्ञापनीया भावा अनन्तभागस्त्वनभिलाप्यानाम् / प्रज्ञापनीयानां पुनरनन्तभागः श्रुतनिबद्धः // 5 कार्याकारणता तेषां नार्थ० स्याद्वादमाया पाठान्तरम् /