________________ 204 नयचक्रम् / | विधिविधिनयेध्यते / यस्मान्मयूरविरुतं च सङ्केताद्यवहारानुपाति न यथा मयूरविरुतं त्रासमदेहर्षस्थानगमनाद्यन्यतमावस्थाविशेषसहचरं श्रुतचरं तथोत्तरकाले कृतसङ्गीतेः पुरुषस्य तादृग्विज्ञानमादधाति, एवं पुरुषोऽपि घटपटादिशब्दोच्चारणेन पूर्वसङ्केतवशात् पुरुषान्तराय स्वाभिप्रायमर्पयतीति न प्रसिद्धिव्यवहारविरोधौ / तथैवाचेतनशब्देष्वपि कालाकालमेघस्तनितादिषु सङ्केतादेव शुभाशुभादिपरिज्ञानं दृश्यते, अथवा किमनेन प्रसिद्धिव्यवहारविरोधपरिहारपरिक्लेशेन ? नायमेव सुश्लिष्टः परिहारो व्यापी च। तद्यथा-ते सर्व एव शब्दास्तस्यैव चैकस्य ब्रह्मणः पुरुषाद्यन्यतमविधिविधिनयविकल्पस्य यथोपपादितं त्वया रुचितस्यान्यतमस्य लक्षणार्थाः / तदेकदेशत्वात् प्रागभिहितप्रत्यक्षसिद्धिवत् / यथा गौर्विषाणी ककुद्मान् प्रान्ते वालँधिः साँस्सावानिति / यथैते विषाण्यादिशब्दा गोरेकदेशवाचित्वात् तदुपलक्षणार्थाः प्रसि. द्धसङ्केतवशाद् गोरेव वाचकाः / तदवयवानां तस्मादभिन्नत्वात् / एवं सर्वशब्दाः तदवयवानां ततोऽपृथक्त्वात् तस्यैव ब्रह्मणो वाचका इति वाचकत्वेऽप्युपपन्नः प्रसिद्धव्यवहाराविरोधः। अभिन्नकभवनब्रह्मोपलक्षणार्थत्वे सर्वशब्दानां शब्दलक्षणविन्मतिसंवादे ज्ञापकमाह-एवं च कृत्वाहुः शब्दलक्षणविद इति वाक्यशेषः। 'सर्वधातवो भुवोऽर्थमभिदधति इति तेषामप्यस्मिन्नेव दर्शने करोत्यादिधातूनां सत्तार्थानतिक्रमे स्वार्थवचनमुपपद्य भुवं वदन्तीति भूवादयो वादिशब्दस्यौणादिकेद॑न्तत्वात्तथा भूवादिशब्दव्याख्यानान्नान्यथेति / उक्तः पदार्थः / इदानीं वाक्यार्थ उच्यते-स एकोऽनवयवः शब्दो वाक्यार्थः / वाक्यं च अर्थश्च वाक्यार्थः, वाक्येन युक्तोऽर्थों वाक्यार्थः / वाक्यसम्बन्धाद् वाक्याद्वाक्यस्यैवार्थः / यथाहुः 'अख्यातशब्दः सङ्घातो जातिः सङ्घातवर्तिनी / एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंवृति // पदमाद्यं पृथक् सर्व पदं सापेक्षमित्यपि / वाक्यं प्रति मतिर्भिन्ना बहुधा न्यायदर्शिनाम् // ' -वाक्यपदीये का.२, श्लो. 1-2 तत्र यैः ‘एकोऽनवयवः शब्दः' इत्युक्तं तैर्विनिश्चित्योक्तं भवनस्यानवयवत्वात् , तथैव पदवाक्यशब्दः तदर्थाद्यात्मत्वादिति / न तु सर्वाण्येकस्यैव सर्वत्वादिति चरितार्थम् / एष द्रव्यार्थो विधिविधिनयः। तोर्वासात् संग्रहदेशत्वाचाय द्रव्यार्थतेति सङ्ग्रहो द्रव्यार्थः। स पुनर्द्विविधः सङ्ग्रहो देशसङ्ग्रहः सर्वसङ्ग्रहश्चेत्येवमादिशतप्रस्तारोऽसौ / आर्षे शतभेदश्रुतेर्नयानाम् / यथोक्तम्-'एकेको य सयविहो __5 °दर्थ ग। 2 प्य° ग / क्या क-ख / 3 °म° ग / 4 सम्ना ग५ लुबो ग / 6 सन्तानाग। 7 स्वर्थद प्रवचनभवन। ८°केस ग-केस घ।