________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 137 कार्य एवं नान्यत्रापीत्यकार्ये खपुष्पादाविति / इतिशब्दो हेत्वर्थे / स्यादवधारणाद्धेतोरित्यर्थः / एवं सति को दोप इति चेत् ? उच्यते-ततश्च न खपुष्पमसदिति प्रसक्तं, दृष्टेष्टविरुद्धं सत्त्वं खपुष्पस्येत्यर्थः / तथा चेत्यादि, यावन्नाममात्रे विसंवादः, एवं च कृत्वा कार्यमसत् खरविषाणं सदिति सङ्गत्या सतोऽसदित्यसतश्च सदिति संज्ञा क्रियते / कार्यासत्त्वमिति, ततः खरविषाणविपरीता ये निवृत्ता घटादयस्तेषां घटादीनामसत्त्वेन तुल्यं कार्यस्यासत्त्वं सतामेवासत्त्वेन तुल्यं विपरीत नाममात्रमग्नेर्मङ्गलनामवत् / न वा च कश्चिदर्थस्य सत्त्वे विसंवादोऽसत्कार्यमिति / किं चान्यत्-कार्यसत्त्वनिवृत्त्यैकान्तत्यागाच स्ववचनादिविरोधापत्तिकार्यसत्त्वनिवृत्तिः, कार्यसत्त्वं तदवधारणमेवातः कायमेवासदिति / तस्य त्यागोऽनन्तरोक्तविधिना प्राप्तस्ततश्च कार्यसत्त्वनिवृत्त्येकान्तत्यागाच्च स्ववचनादिविरोधापत्तिश्च / स्ववचनविरोधस्तावत् तदेव कार्यमसदित्युक्त्वा तस्यैवकारणसामर्थ्यात् सत्त्वापादनात् तदेव सत् तदेवासदिति ब्रुवतः। अथवा यदि कार्य प्रथमं सदथासत् कथं कार्य क्रियते ? / घटो घटतया व्यज्यते दीप्तमेव क्रियत इति वक्ष्यति / तथाभ्युपगमादभ्युपगमविरोधः / तथा लोके प्रसिद्धत्वाल्लोकविरोधः / तत्त्व एव तथाभूतेरनुमानविरोधः / तथा मृत्पिण्डघटादिकारणकार्यदर्शनात् प्रत्यक्षविरोधः। एवं तावत् कार्यमेव सन्न खपुष्पादीत्यवधारणदोषः / कार्यमेवासन्न कारणमित्यस्थावधारणस्य प्रतिपक्षवादापत्तेः / अथैवमवधार्यते कार्यमसदेवेति / तत्रापि 'यत एवकारस्ततोऽन्यत्रावधारणमित्यसत्समीप एवकारात् कार्यमसत्त्वेनावधायते। कार्य न यदा सत् / असत् तु कार्य वा स्यात् खपुष्पादिवेत्येवमसत् , एवकारे त्वसदनवधृते पूर्वो दोषो योऽसत्त्वाविशेषादित्यादिः / स एव कार्यखपुष्पयोरसत्त्वे आयत्यामाविर्भावानाविर्भावकृतो विशेषो न स्यादित्यविशेषापत्तिदोषः प्रागुक्तः स एवात्रापि / अत्रोच्यतेत्यादि अविशेषापत्तिदोषस्य च परिहारार्थमथोच्यते तत्त्वयेति परमार्थमाशङ्कते-कथमसत्त्वादेव तयोः कार्यखपुष्पयोः कारणकाले विशेषासम्भवः / यथा खपुष्पमसत् तथा कारणकाले कार्यमप्येसदेवेति नानयोः कश्चिद्विशेषोऽस्ति / न ह्यसतो निरुपाख्यस्य खपुष्पस्य वृत्तफलकेसराद्यवयवसौरभादिविशेषाः खरविपाणकुण्ठतीक्ष्णत्वादिभ्यो भिन्नलक्षणाः सन्ति, उभयेषां अवस्तुत्वान्निरुपाख्यत्वाचेत्यस्मादविशेषात् कारणकाले यदेव कार्यासत्त्वं तदेव खपुष्पासत्त्वमपीति / ततः किं परिहतमिति चेन्नावधारणकृतो दोषः परिहतो भवति / कार्यमेवासदसदेव कार्यमित्यवधार्यमाणे खपुष्पसत्त्वं, कार्यखपुष्पयोरविशेषः / इत्येतो 1 कार्यमेव क-ख। 2 चान्यस्य ग। ३°दिति वेग। 4 कार्यनयमा°ग। 5 मथ ग। 6 दोषः / इत्यवधारणकृतो दोषःग। न० च० 18