________________ 138 नयचक्रम् / [हवनक्रियादोषौ तयोरविशेषाभ्युपगमान स्त इति / नापि पूर्वस्तुल्यत्वापत्तिदोषः / कार्यस्यायत्यामनाविर्भावः खपुष्पस्याविर्भाव इत्यविशेषोऽस्यापि तुल्यत्वापत्तिदोषस्य / अभावोऽसतोविशेषाभावादनेकविषयत्वात् तुल्यस्य / अयमनेनाभ्यामेभिरिमाविमे वार्थास्तुल्या इति हि तुल्यत्वमनेकविषयं दृष्टं, न हि तदेव तेन तुल्यमिति / अत्रोच्यते-एवमप्येकत्वाद्विशेषाभाव इति त्वयैव कार्यखपुष्पयोरसत्त्वाविशेषोऽभ्युपगतः। 'एकरूपत्वादवस्तुनः' इति तदवस्थ एवाविशेषदोषः। तस्यैवेदानीमविशेषदोपस्यापादानार्थ विकल्प्यतेऽन्यदनिष्टापादनम् यथैव हीत्यादि / यथैव खपुष्पयोपादानं पूर्वदृष्टश्रुतानुभूतं बुद्धौ सिद्धं वाकारादिविशिष्टत्वं नास्तीत्यनुपादानमबुद्धिसिद्धं च खपुष्पम् / ततः किमनुपादानबुद्धिसिद्धत्वाभ्याम् ? / तन्निःसामान्यं निर्विशेषं चेति सिद्धम् / एवं घटादेः कार्यस्य मृदाधुपादानं बुद्धिसिद्धत्वं सामान्यविशेषत्वं च न स्यात् / तच्च मृद एव / येनाकारेण भवनं देशकालनवपुराणकृष्णरक्तत्वादिघटभेदेऽपि तुल्यतया सामा. न्यम् / विशेषश्च पटादिभ्यः / तच्च खपुष्पस्योपादानबुद्धिसिद्धत्वसामान्यविशेषवत्त्वं च स्यात् / उभयोर्निरुपाख्यत्वात् / न त्वेतदिष्टं तस्मादस्त्यनयोर्विशेष इति सत् कार्यम् / अथ सामान्यविशेषोपादानबुद्धिसिद्धत्वसद्भावौ कार्यखपुष्पयोरिष्येते त्वया विशेषौ, खपुष्पवदभवदपि तदसदेव खपुष्पवदिति येन प्रकारेण खपुष्पं न भवति नोत्पद्यते तेन प्रकारेणाभवदपि अन्यथा भवदपि उत्पद्यमानं कदाचिदृश्यमानमपीत्यर्थः / उपादानबुद्धिसिद्धत्वसामान्यविशेषवत्त्वप्रकारेण भवदपि तत् कार्यमसदेवेष्यते / ततश्चैवं सत्ययमपरो दोषः / निवृत्तमपि तयसत् कार्यमिति वर्तते सोपादानबुद्धिसिद्धत्वसद्भावेऽपि / कस्मात् ? सामान्यविशेषवत्त्वात् कारणकालकार्यवत् / यथा कारणकाले कार्यमसत् त्वन्मतेन सामान्यविशेषवदपि सोपादानं बुद्धिसिद्धमपि तथोत्तरकाले निर्वृत्तमपि तदसदेव स्यात् कारणकालवदिति / कार्यवच्चाभवदपि खपुष्पमसन्न स्यात् / कार्यप्रादुर्भावप्रकारेणाभवदपि तस्मिन्नभवनप्रकारविशेषे सत्यपि सत् प्राप्नोति खपुष्पं निःसामान्यनिर्विशेषत्वात् / तद्धि खपुष्पं निःसामान्यं निर्विशेषं चेति सिद्धम् ,अतस्तस्य निःसामान्यनिर्विशेषत्वात् सत्त्वं स्यात् / को दृष्टान्तः ? सामान्यविशेषवत् कार्यवदिति सिद्धे वैशेषिकमतालम्बनसामान्यविशेषदृष्टान्तो निःसामान्यनिर्विशेषाणां सामान्यविशेषाणां वस्तुत्वं खपुष्पतुल्यमेवेति काका दर्शितं भवति / प्रकृतार्थोपनयस्तु यथा सामान्यविशेषौ घटत्वादिनिःसामान्यो निर्विशेषश्च संश्चेति सिद्धस्तथा खपुष्पमपि सत् स्यात् / किं चान्यत्-कार्यासत्ववैलक्षण्याद्वा कारणवत् असन्न स्यात् खपुष्पमिति वर्तते / कार्यस्य 1 वाक्याद्ग / 2 °पतग°क-ख।