________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 139 घटादेरसत्त्वेन खपुष्पस्याप्रादुर्भावानुपादानाबुद्धिसिद्धत्वनिःसामान्यविशेषवैलक्षण्यात् / खपुष्पमपि सत् स्यात् कारणवत् / एतैश्च प्रकारैः सिद्धमेव कार्यात् सत्त्वचैलक्षण्यमिति सिद्धो हेतुः, निवृत्तत्वादिप्रकारेण च कारणस्य तद्वैलक्षण्यं सिद्धमिति साधयं कारणखपुष्पयोः / कारणं वा खपुष्पवत् कार्यासत्त्ववैलक्षण्यादसत् स्यात् कार्यस्यासत्त्वं वा त्याज्यमित्यभिप्रायः / अनेकार्थोपादानादिमत्त्ववदित्यादि / अथ भवता खपुष्पसत्त्वप्रसङ्गदोपभयाद् युक्तं प्रतिपादनमपि कार्योपादानादिमत्ववत् खपुप्पस्याप्युपादानादिमत्त्वं नेष्यते / आदिग्रहणाद् बुद्धिसिद्धसामान्यविशेषवत्वानि नेष्यन्ते / इदं कार्यस्यासाधयं खपुष्पेण सहेष्यते / असत्त्वकार्यमिति, निश्चितमित्यादि, पूर्ववच्चक्रकद्वयप्रवर्तनमिति ग्रन्थमतिदिशति___ तदेव कथं पुनर्भाव्यते ? यदि कार्योपादानादिमत्त्ववत् खपुष्पस्योपादानादिमत्त्वं नेष्यते कार्य वा सदिति निश्चितं तद्वैलक्षण्यादनुपादानादिवैलक्षण्यात् , तबसत् खपुष्पं तदसद्विलक्षणत्वाद् घटवदितर उदुम्बरपुष्पवत् / ननु घटासत्वं पटासत्त्वविलक्षणं न सतो वेलक्षण्यात् / अथैवमपि वैलक्षण्ये खपुष्पासत्त्वविनिश्चयो न निवर्तते / अनुपादानादिमत्त्वात् / न तमुपादानादिमत्त्वात् कार्यमसत् / असवेनोपादानादिमत् स्यात् खपुष्पवत् / एतदपि पर्ययचक्रकं शेषं पूर्ववदेव विपर्ययेण / अतः सत् कार्यमुपादानादिमत्त्वानिवृत्तघटवद्वैधयेणाकाशघटवदित्यादिरपि यावत् सदाश्रयत्वात् सत्त्वं घटवदिति / एतद्विपयेयचक्रकम् / एवमुभयासत्त्वेऽन्यतरासत्त्वे तु / अथेतत् साम्यमुभयासत्त्वान्मा भूदित्यन्यतरासत्त्वं कार्यसत्त्वाभ्युपगमपरिहारेण कार्यमेवासदिति / अत्र कार्यसमीप इत्यादि, यावत् खवचनादिविरोधापत्तिः। पुनरप्यसदेवकारे त्वसदनवधृते पूर्वदोषः / अथोच्यते इत्यादि, यावत् कार्यासत्त्ववैलक्षण्याद्वा कारणवदिति स एव ग्रन्थ उपादानादिमचविशेषणकुतो विशेष इति / अतः कार्य सदुपादानादिमत्त्वात् कारणस्वात्मवद्वैधयेणाकाशघटवत् / असच्च खपुष्पमनुपादानत्वाच्च घटवत् इतरो निर्वृत्तघटवत् / तथा सत् कार्य बुद्धिसिद्धत्वानिवृत्तघटवत् इतरो नभोघटवत् / असञ्च खपुष्पं बुद्ध्यसिद्धत्वात् घटवदितरो निर्वृत्तघटवत् / एवं सामान्यविशेषाभ्यामपि योज्यम् / तस्मात् कार्य सत् कारणवन्न तु खपुष्पमित्यर्थः। ___ आह-ननु सत्त्वेऽपि कारणवत् प्रत्यक्षत्वं प्रसज्यते त्वत्परिकल्पितं मृत्पिण्डावस्थायां कार्य घटाख्यं प्रत्यक्षं स्यात् सत्त्वात् कारणवन्मृत्पिण्डवदित्यर्थ इति / ___ अत्रोच्यते-नाव्यक्तत्वात् / नैष दोषः / कस्मात् ? अव्यक्तत्वात् / तस्यां हि मृत्पिण्डावस्थायां घटोऽनभिव्यक्तत्वादिन्द्रियोंपलभ्यते द्वितटीखातहस्तीव पूर्व 1 तासांग।