________________ 140 नयचक्रम् / [विधिविधिनयेखननात् / एवं हि मृदवयवा भित्तिगताः खननात् प्रागपि विद्यमानाः खननोत्तरकालं हस्त्याकारव्यपदेशं लभन्ते / न च ते प्रागभिव्यक्तेरनुपलब्धत्वान्न सन्ति / अथवा कार्ये सत्यपि ह्यव्यक्ते भृगन्धवदप्रत्यक्षत्वं कार्यस्य / यथा भुवो गन्धो विद्यमानोऽपि न घ्राणेन्द्रियगोचरमागच्छत्यव्यक्तत्वात् सलिलसिक्तस्तूत्तरकालमभिव्यक्त उपलभ्यते / तथा मृदवस्थायामप्रत्यक्षो घटः कुलालप्रयत्नदण्डचक्रसूत्रादिकारणाभिव्यञ्जितः पश्चादुपलभ्यतेऽतस्तस्य प्रत्यक्षत्वं भवतीति को दोषः / अत एव च प्रकरणचिन्तेति / प्रकरणसमदोषोऽनेकान्तत्वात् / उक्तमनेकान्तिकत्वमस्य हेतोः / यत एव प्रकरणविन्यासनिर्णयार्थमपदिष्टः सन् प्रकरणसमः / इह हि घटादेः कार्यस्याप्रत्यक्षत्वादेव चिन्ता समुत्पन्ना, किं घटादिकार्यसमोऽसदिति ? अप्रत्यक्षत्वस्य सत्यसति च दर्शनात् मूलोदकादौ खरविषाणादौ वेत्यतो व्यभिचरत्यप्रत्यक्षम् / तथा सत्त्वमपि प्रत्यक्षाप्रत्यक्षयोदर्शनात् , सतोऽप्रत्यक्षस्य मेरूत्तरकुरुद्वीपग्रहग्रहेनगृहादेः खरविषाणादेश्चासत इत्यनेकान्तादिति / एवं तर्हि दर्शनादर्शनयोः प्रादुर्भावाप्रादुर्भावयोश्च समानः प्रकरणसमदोष इति चेत् / न, जन्मप्रकाशविषयविशेषस्योक्तत्वात् / उपादानादिमत्त्वाविशेषाञ्च त्वत्पक्षे न समानो दोष इति / एवं न हीत्यादि, यावत् तथोपसंहारमेव / इतर आह-त्वदुक्तसाधनप्रपञ्चस्य कार्यासत्त्वेऽपि तुल्यत्वान्मयापि शक्यं वक्तुं कार्यसत्त्वस्य कारणे त्वन्मतस्य निवारणे कृते कार्यासत्त्वं भवितुमहेति / तत्साधनं श्रूयताम्-- __यदेतत् समानकारणं ततोऽन्यत् कार्य तद्विकल्प्यासामर्थ्याद् घटपटवत् / अत्रापि कारणं सत् कार्य सत् , कारणं सत् कार्यमसत् , कारणमसत् कार्य सत्, कारणमसत् कार्यमसदिति चतुर्पु विकल्पेषु द्वयोः पूर्ववत् प्रतिपक्षवादापत्तेस्त्यागादुभयसत्त्वमन्यतरसत्त्वं च स्यात् / तत्रोभयसत्त्वे तावत् तद्यदि तावदुभयसत्त्वं सत् ततः सत्त्वाविशेषादेवाविशेषे सर्वत्वैकत्वभेदो न स्यात् / मृदेव सर्व पिण्डशिवकादिघटपिठरकपालादिकार्य त्वेकमेव पिण्ड इति वा शिवक इति अनन्यदेकमेवं तु कार्यैकत्ववत् कारणैकत्वमपि स्यात् / अथ न कार्यैकत्ववत् कारणैकत्वं, सच्च कार्यमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत् कारणमसद्विलक्षणत्वादुदुम्बरपुष्पवत् / इतरो निर्वृत्तघटवत् / न तु घटत्वं पटसत्त्वविलक्षणं नासतो लक्षण्यात् इतरेतरासत्वात् / अथैवमपि वैलक्षण्ये कारणकार्यसञ्चनिश्चयो न निवर्तते / अनेकात्मकं च तत् सर्वात्मकमित्यर्थः / न तर्खेकात्मकत्वात् कार्य सत् , सत्त्वं एकात्मकं न भवेत् / सत्त्वात् कारणवत् / एतत् प्रथमचक्रकम् / शेषं पूर्ववद् विपर्ययेणेत्यादि / यदुक्तं तदपि / अथ न कारणसर्वत्ववत् कार्य