________________ असत्कार्यवादः ] न्यायागमानुसारिण्यलकृतम् / 141 सर्वत्वं सच्च कारणमिति निश्चितं तद्वैलक्षण्यादितरेतरासत्त्वात् / एतत् द्वितीयं चक्रकम् / अतः सर्वात्मकत्वसतः कारणादन्यत् कार्यमेकात्मकत्वात् कुम्भादिविलक्षणम् / एकात्मकत्वसतश्च कार्यादम्यत् कारणं सर्वात्मकत्वादिव कुम्भ इति / तथानुवृत्तिव्यावृत्ती अनुवृत्तिम॒न्मृदिति पिण्डशिवकादिषु व्यावृत्तिर्घटः पिठर इति / तद्यदि तावदुभयसत्त्वं सत्चाविशेषादेव / अविशेष कार्यव्यावृत्तिवत् कारणव्यावृत्तिरपि नासत्त्वादघटवच्च न कार्यव्यावृत्तिस्तत्कारणव्यावृत्तिः सच कार्यमिति निश्चितं तद्वैलक्षण्यान तर्हि सत् कारणमसत् सद्विलक्षणत्वादुदुम्बरपुष्पवत् / इतरो निवृत्तघटवत् / ननु घटसत्त्वं पटसत्त्वविलक्षणं नासतो वैलक्षण्यात् / अथैवमपि वैलक्षण्ये कारणसत्त्वविनिश्चयो न निवर्ततेऽनुवृत्त्यात्मकं च तत्, न तर्हि व्यावृत्त्यात्मकत्वात् कार्य सत् / सत्त्वेन व्यावर्तेत सत्त्वात् कारणवत् / द्वितीयं चक्रमविपर्ययेण / शेषं पूर्ववद्विपर्ययेणेत्यादि / __ अथ न कारणानुवृत्तिवत् कार्यानुवृत्तिः / सच्च कारणमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत् कार्यमसद्विलक्षणत्वात् , उदुम्बरपुष्पवत् / इतरो घटवत् / ननु घटसत्त्वं पटसचविलक्षणं नासतो वैलक्षण्यात् / प्रथमं विपयेयचक्रकम् / अथैवमपि वैलक्षण्ये तत्सत्त्वविनिश्चयो न विनिवर्ततेऽनुवृत्त्यात्मकं च तन्नै तर्हि व्यावृत्त्यात्मकत्वात् कार्य सत् सत्त्वेन व्यावर्तेत सत्त्वात् कारणवत् / एतद्वितीयं चक्रकं विपर्ययेण। अतोऽनुवृत्तिसतः कारणादन्यत् कार्य व्यावृत्तत्वात् पतिरिवैका, व्यावृत्तिसतश्च कार्यादन्यत् कारणमनुवृत्तत्वादेकसादिव पतेः। आदिग्रहणादसदनुक्रान्ताविर्भावानाविर्भावचक्रकद्वयमपि योज्यम् / यदि तावदुभयसत्त्वं ततः सत्त्वाविशेषादेवाविशेषे प्राकार्यानाविर्भाववत् कारणानाविर्भावोऽपि स्यात् / अथ न प्राकार्यानाविर्भाववत् कारणानाविर्भावः / सच्च कार्यमिति निश्चितं तद्वैलक्षण्यान्न तर्हि सत् कारणमसत् सद्विलक्षणत्वाद् घटवदितर उदुम्बरपुष्पवत् / ननु घटसत्त्वं पटसत्त्वविलक्षणं नासतो वैलक्षण्यात् / अथैवमपि वैलक्षण्ये कारणसत्त्वविनिश्चयो न विनिवर्तते / नित्याविर्भावात्मकं च तन्न तर्हि सततानाविर्भावात्मकत्वात् कार्य सत् सत्त्वे प्रागप्याविर्भवेत् / सत्त्वात् कारणवत् / प्रथमे शेषं पूर्ववदेव विपर्ययेण / अथ न कारणसतताविर्भावः सच कारणमिति निश्चितं तद्वैलक्षण्यात् तर्हि सत्कार्यमसत् सद्विलक्षणत्वादुदुम्बरपुष्पवत् / ननु घटसत्त्वं पटसत्त्वविलक्षणं नासतो वैलक्षण्यात् / द्वितीयं चक्रकम् / इत्येवमाविर्भावानाविर्भावविचारेण द्वे चक्रके मते इति / 10 क्रमतः। सर्वाघ। श्च सतं ग। 2 वैककणः क। 3 तत्र ग / कारणसत्वमिक-ख /