________________ नयचक्रम् / 142 [विधिविधिनये___ अत्रोच्यते-नासिद्धत्वात्-नैतदुपपद्यतेऽस्मत्पक्षसाधनवत् त्वत्पक्षसाधनम् / किं कारणम् ? असर्वत्वादिहेतूनामसिद्धत्वात् / यस्मादस्माकं सर्वमेवानुवृत्तिरेव कारणमेवोपादानमेव बुद्धिसिद्धमेवेतीति / तसादसर्वत्वादेरसिद्धत्वात् तद्रिकल्पाभावात् तदसमर्थविकल्पत्वासिद्धिस्ततः कारणात् कार्यमन्यदित्येतन सिद्ध्यतीति / तत्रासर्वत्वासिद्धौ प्रतिपादितायां व्यावृत्त्यादीनामसिद्धिरापादितैव भविष्यतीत्यसर्वत्राभावमेवापादयितुमाह यदि हि घटोऽसर्वकार्यत्वाभिमतो मृत्पिण्डासत्त्वाभिमतादन्य इतीप्यते तद्वदेव घटवदेव कार्यवदेव दण्डादेरप्यसर्वत्वं विप्रकृष्टस्यापि, किमुत सन्निकृष्टस्य शिवकादेः सर्वसादन्यत्वात् घटवत् / तस्मादेकैकस्यासर्वत्ववत् सर्वस्याप्यसर्वत्वात् सर्वत्राभाव इति सर्वत्वैकत्वभङ्गचतुष्टयाभावः / तदसमर्थविकल्पत्वमप्यत एव नास्ति / तथाऽनुवृत्त्याधभावश्च तत एव नास्ति / यथैकस्य घटस्य मृदनुवृत्त्यभावस्तथा सर्वघटेषु तथा शिवकादिष्वप्यभाव इत्यनुवृत्यभावादनुवृत्तिव्यावृत्तिकृतविकल्पाभावश्च / एवं कारणोपादानबुद्धिसिद्धसामान्यैः सत्प्रतिपक्षैः विकल्पचतुष्टयासिद्धिस्तदसमर्थविकल्पा सिद्धिश्चापादनीया / ततः कारणादन्यत् कार्यमित्येतन्न सिद्ध्यति / किं चान्यत्-खोक्तविरोधादिवत् / स्ववचनाभ्युपगमलोकव्यवहारप्रत्यक्षानुमानविरोधाः / आदिग्रहणात् प्रमाणग्रहणात् प्रत्यक्षानुमानग्रहणं विशेषस्वरूपविरोधौ च कण्ठ्योक्तौ वक्ष्यति / तत्र खवचनविरोधस्तावत्-यदि कार्य घटवत् क्रियते तत् कथमसत् खपुष्पवत् कार्य च? खेन वचनेन स्वमेव वचन विरुध्यते / अथासत् खपुष्पवत् कथं कार्य घटवदिति सैव खवचनविरोधभावना विपर्ययेण / तयोरेव शब्दयोर्विरोधदर्शनार्थी यसान्मृद एव हि घटः क्रियते / हिशब्दो यस्मादर्थे / यस्मात् सर्पस्फटाटोपकुण्डलीभवनवन्मृद एव घटीभवनम् / तथा प्रकाशतां व्यक्तिर्विमलता क्रियते, करणं यथा पृष्ठं कुरु पादौ कुर्विति तद्दर्शयन्नाह घटः क्रियते घटतया व्यज्यते विद्यमान एव व्यक्तीभवति / को दृष्टान्तः / स एव घटो दीपेनेव क्रियया व्यज्यते दण्डादिव्यापारणात्मिकया / तथा च विशेषणविशेष्याऽप्रसिद्धिपि कार्यमसदिति व्याघातः प्रोक्तः स्ववचनविरोधभावनात एव खपुष्पनिवृत्तघटयोरिख न कार्यमसता विशेष्यम् / नाप्यसत् कार्यणेति / न परस्परतो विशेषणं विशेष्यं चेति विशेषणविशेष्याप्रसिद्धिरसादेव कारणादत एवेत्यादि, यावत् न खेदः कर्तव्यो भवति / यत् त्वया व्याख्यानमनुष्ठितमितिकर्तव्यतैव कर्तव्यतेति यत्नेन महता पूर्वोत्तरचोद्यपरिहारपक्षाव्यवच्छेदवता प्रतिपादनाथे न क्रियायां क्रियाव्याख्यानार्थः खेदः कर्तव्यः / किं कारणम् ? सामान्यादिवस्तुविचारखेदस्याव्यवस्थितपरमार्थत्वात् सर्वस्य क्रियाया