________________ असत्कार्यवादः ] न्यायागमानुसारिण्यलङ्कृतम् / एवोपदेशों न्याय्य इत्यस्याभ्युपगमस्योपरोधात् / एवं तावद् ज्ञानपूर्वकक्रियोपदेशपक्षे स्ववचनविरोध उक्तः / यस्मिन्नप्यग्निहोत्रं जुहुयादित्यादिक्रियोपदेशोपजीवनं नास्त्यज्ञानप्रतिबद्धमेव सर्वमित्येकान्तः, तस्मिन्नज्ञानप्रतिबद्धैकान्तेऽपि च ज्ञानप्रतिबद्धत्वे खवचनस्य विरोधः। असत्कार्यमिति ज्ञात्वोक्तं चेत् तर्हि सर्वमज्ञानप्रतिबद्धमेवेत्यज्ञानप्रसिद्धत्वात् , अथाज्ञात्वा कथं प्रतिपादकं सार्थकं चेति स्ववचनविरोधः / त्वयाप्येतदेवमिति निश्चित्याभ्युपगम्योक्तत्वादज्ञानप्रतिबद्धाभ्युपगमस्य च तेन विरोधादेवमित्यवगमादभ्युपगमविरोधः कृतः / लोकज्ञानव्यवहारात् तद्विरोधः / ज्ञानपूर्वको हि लोकव्यवहारस्ततस्तस्याज्ञानप्रतिबन्धाभ्युपगमाप्रतीतेलॊकरूढिविरोधः। प्रमाणविरोधस्तु प्रस्तुत एवेति / प्रत्यक्षविरोधस्तावत् तथा लोके दृष्टत्वात् / क्रिययाभिव्यज्यमानस्य घटादेः कार्यस्य दीपेनेव सत उपलब्धेरनुमानविरोधज्ञापकत्वाद्विशेषविरोध इति / अस्थासत्कार्यमिति ज्ञापकवाक्यस्य ज्ञापकत्वविशेषेष्टेः / प्रत्यक्षस्ववचनादिविरोधेषु धर्मविशेषविपर्ययसिद्धेविशेषविरोधः / तेष्वेवाप्रयोगप्रसङ्गाद्धर्मस्वरूपस्य प्रतिपिपादयिषितस्य निराकरणाद्धर्मस्वरूपविरोधः। एवं धर्मिखरूपविरोधस्तदुभयविरोधश्च यथायोगमापाद्यः / इत्यलमतिप्रसङ्गिन्या कथया / तसादयुक्तोऽसत्कार्यवादोऽग्निहोत्रं जुहुयादितिकर्तव्यतैव कर्तव्यता। कुर्यादिति चाभ्युपगतः परेणेति / अत इत्यादि, अत एतेभ्यो दोषेभ्यो निःसृत्य किं प्रतिपत्तव्यम् ? / उच्यते-अतः पूर्वोदितदोषासम्बन्धेन ये पूर्वमुदिता विधिवादिना सामान्यैकान्तवादे विशेषकान्तवादे सामान्यविशेषनानात्ववादे दोषाः, मयापि च ये दोषा उक्ताः सामान्यादिविचारप्रत्याख्यायिनः क्रियोपदेशवादिनः, अज्ञानवादिनश्च तेषामुभयेषामपि दोषाणामसम्बन्धेनेदं प्रतिपत्तव्यम् / आत्मैव सामान्यमिति / ननु पूर्वदूषितमेवैतन्मतमात्मैव सामान्यमिति / 'सुखं सुखं च सुखादिसमुदायश्चे'त्यादि पूर्वोत्तरपक्षप्रपञ्चेनेति / अत्रोच्यते-नात्मशब्दस्य पुरुषपर्यायत्वात् / अवयवानभ्युपगमात् समुदायवादपरिहारेणान्यपुरुषसामान्यस्यावस्थावतोऽवस्थाभ्योऽनन्यस्य तत्स्वरूपावस्थानात् तद्वैधादात्मेति न वस्तुस्वरूपपर्यायवाचिनोऽत्र ग्रहणम् / किं तर्हि ? अतति सततं गच्छति तांस्तानवस्थाविशेषान् स्वरूपापरित्यागेनेत्यात्मा, स एव सामान्यं चैतन्यलक्षणम् / एवं तर्हि विशेषाभावे कस्य सामान्यमिति सामान्याभावप्रसङ्गः समभूदिति विशेषा वक्तव्याः। उच्यते, सामान्यं पुरि शयनात् पुरुषः / विशेषास्तु तस्यैवावस्थावतोऽवस्थाः जाग्रत्सुप्तसुषुप्ततुरीयाख्याः / तासां स्वावस्थानां पुरुषः सामान्य 1 साधकं ग / 2 धर्म ग। 3 नाक-ख / 4 वाक्य क ख /