________________ 144 नयचक्रम् / [विधिविधिनयेमिति / किं निदर्शनमिति चेत् ? घटग्रीवादिरूपादिनवादिभेदाभेदसमवस्थावत् / यथा घटस्य स्थूला ग्रीवा, बुघ्नं मध्यावस्था, सूक्ष्माश्च रूपादयो देशभेदभिन्नाः कालभेदभिन्नाश्च नवपुराणावस्थाः / तेषामेवावस्थाभेदानामभेदेन समवस्था घट इति तद्वदात्मैव स्वावस्थानां सामान्यमेवं च कल्प्यमानं सर्वसर्वात्मकत्वसत्कार्यत्वमूलरहस्यानतिक्रमेण कल्पितमिति / गुणश्चात्र विद्यते / एवं हि सर्वसर्वात्मकं सच्च कार्यमिति मूलरहस्यमेतन्नातिक्रान्तं भवति / पुरुषात्मकत्वात् सर्वस्य तद्विकारमात्रत्वाच्च भेदानां तत्रैवान्तर्लयाविर्भावात् सर्वकार्याणां कृकलासवर्णविशेषाणामिव कृकलासे। अविचारोऽपि चेत्यादि, यदपि चानर्थको विवेकयत्नः शास्त्रेष्वित्यविचारितमिष्यते / सोऽप्यनेनैव युक्तिमार्गेण तत्त्वेनैकमाश्रित्य न्याय्यः, तस्य भावस्तत्त्वमात्मनो भावेनैक्यमाश्रित्य न्यायादनपेतो न्याय्यो नाज्ञानप्रतिबन्धात् / यद्यज्ञानप्रतिबन्धादविचारस्ततः स्वयमेव विज्ञाते प्रमाणप्रमेयभावाभावादयुक्तमित्युक्तम् , इह तु ज्ञानात्मकपुरुषस्वरूपैक्यापत्तिसन्निश्चये निश्चितमेवैतत् / किं विचारेण ? गतार्थत्वात् , न तु ज्ञातुमशक्यत्वादिति / अयं तस्य प्रवृत्तिपर्यायस्य विधिविधिविधिः स्थितिराचारः प्रवृत्तिर्मर्यादेत्यस्य विधिनयस्यायमेव विधिराचारः स्थितिरित्यादि / एवं प्रवृत्तिरित्यर्थः / या चैतन्यात्मस्वरूपा प्रवृत्तिः सा विधेविधिरित्येतमर्थ व्याचष्टे / यः पुनर्विधिः प्राक्तनः स न युज्यते यसाद्विधिनेत्यादि / भवतीति भावः। भूप्रकृतिः कथः 'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह बूतः' इति वचनात् / भावे घनो विहितत्वाद्भूयत इति भावो न, भवतीति कर्बर्थ इति चेत् तत्रापि येन भूयते समानेन समानो भवतीति भावः। णप्रकरणे 'भुवश्वोपसङ्ख्यानम्' ( ) इति वा कर्ता सामान्यमित्येवं व्यवस्थितेऽर्थे सर्वतत्रसिद्धान्तेन व्याकरणेन तत्र विशेषमात्रवादे देशकालभेदे परस्परविविक्तद्रव्यदेशकालभावभिन्ने भवनेऽभेदे च द्रव्यादितया भवनमात्रे सामान्यवादे नानाभावे च सामान्यविशेपयोर्भेदाभेदं नानासु तासु यथासंख्यं बौद्धसायवैशेषिकमतासु दोषान्न भावः, भावे कर्तुरभावात् / तत्प्रकृत्यर्थकर्तुरभावात् / इतिशब्दस्य हेत्वर्थत्वात् पञ्चमीमप्रयुज्य भवितुरभाव इत्युक्तं, प्रागुक्तन्यायेन भवितुरभावात् भवतीति भावो घटादिरिति व्याकरणदृष्टेन निरुक्त्यर्थेन समर्थितो विधिना / विविच्यते च सादृश्यासादृश्याभ्यां सादृश्यः समानो भवतीति पृथक् प्रतिज्ञायते तेषु विकल्पेषु दोषाणामभिहितत्वानिर्दोषभवनोक्तेश्च विविच्यते विधिना / किमेवं विविच्यत एव ? नेत्युच्यते चेति प्रतिज्ञा, सा पुनरविविक्तैव कृता 'को ह वैतद्वेद ? / किंवानेन ज्ञातेन ? इति वचनात् स एवं विधेविधिन भवति विविच्यमानार्थविधानात् / स्ववचनविरोधदोषात् / अंशेन विवेकाच 1 विधेनें ग। 2 एष ग।