________________ असत्कार्यवादः] न्यायागमानुसारिण्यलङ्कृतम् / 145 यत्राप्यंशेन विवेकस्तत्र विविच्यमानांशेऽपि च यथा भवनाद् विधिनयवादिनाभिहितं तद्वद्विविच्यते / न च विविच्यते, अत्रापि परमतदूषणात् स्वमतसाधनाच घटाविर्भावो विविच्यते न च विविच्यते तथा न भवत्येव विधित्वं विधेः / न विधिर्विहित एवमित्यभिप्रायः। कथं पुनर्विधीयते ? इति चेत्, लोकवत् / लोक इव लोकवत् लोकवदिति विधानात् / यदि लोकवदेव विधीयते विधिरुत्सर्ग एव न भवति / कथं न भवति ? किं न एतेन ? यदि कारणं [यदि] नं भवति / विविच्यते प्रतिज्ञापि तदर्थद्वारिका न कार्या इत्याद्यविचार्य विधानान् न भवति। किं तर्हि ? यदुक्तं सूक्तंतया-'सर्वात्मकत्वेन विधेरुत्सर्गः सिद्ध्यति तथा। यथा तत्तथान्यथेत्यादि / अथवा यथा लोके दृष्टं तथा विधिर्विधिर्भवति / कथं पुनर्लोके विधिर्विधिः ? / उच्यते। इति विधिरित्यादि। इतीत्थमनन्तरं वक्ष्यमाणो विधिविधिर्भवति लोके यथा तत्तथान्यथेत्यादि / मृत्पिण्डशिवकादिप्रकारेण तथान्यथा च भवति / तथा च वक्तव्यं / तच्चातच ययोपपत्त्या भवति / तथा च वक्तव्यमेष विधिर्विधिः / एवं सोऽविवक्षितव्यावृत्तिरनङ्गीकृतभेदस्तिरस्कृतविशेषो निर्व्यावृत्तिरेव विधिर्विहितो भवति / उत्सृष्ट इति पर्यायशब्देनोत्सर्गो विधिरिति सर्वत्रास्य विधिलक्षणस्य दर्शयति / कोऽसौ मिदर्यतामिति चेत् / उच्यते-तद्यथा पुरुषो हीत्यादि / उक्तनिरुक्तः पुरुषशब्दः / हिशब्दो यस्मादर्थे / असौ ज्ञाताज्ञातशीलो ज्ञानधर्मा साधुर्ज्ञानमयो वा पुरुष एव / ज्ञातृत्वं च ज्ञानमयत्वात् / ज्ञानावयवो ज्ञानविकारो वा ज्ञानमयः सः / उपयोगलक्षणत्वात् / ततः किमिति चेत् ? / तन्मयं चेदं सर्वं देवमनुजतिर्यग्नरकपृथिव्यादि घटादिभेदभिन्नं जगत् , तदेकत्वात् , तस्य पुरुषस्यैकत्वात् वस्तुत्वात् तदेकत्ववत् सर्वैकत्वं सर्वैकत्वाच्चैकं स च जगच्च सर्वं भवतीति भावः / ननु घटपटादिभेदेन भवति ज्ञानमयपुरुषात्मकत्वाद् येन भूयते स एव भवतीति भावः / स आत्मैव सामान्यं समानो भवतीति तन्निर्णयार्थ प्रश्नोत्तरक्रमेण ग्रन्थः / को भवतीत्यादिर्गतार्थः / यावत् कः खतन्त्रो यो ज्ञ इति / अज्ञस्यास्वातत्र्यादेव कर्तृत्वाभावात् काष्ठादिविप्रकीर्णपचननिर्वर्तनवत् / यथा काष्ठैः स्थाल्यामोदनं देवदत्तः पचतीत्यत्र देवदत्त एव पचनस्य निर्वतको ज्ञातृत्वान्न काष्ठादीति / तथा पुरुष एव न भवतीति भावः / इतर आह-ननु क्षीररसादि दध्यादेः कर्तृ 'क्षीरादधि भवत्यज्ञात्तत्कर्तृणोरसाद् गुडः। न च तत् क्षीरं रसो वा ज्ञ'मिति / ज्ञकर्तृत्वमनेकान्तिकमित्येतच्च न, तत्प्रवृत्तिशेषत्वात् / तस्यैव ज्ञस्य प्रवर्तमानस्य प्रवृत्तेरपरिसमाप्तायाः शेषत्वात् / कालक्रमभेदकृतस्तु विशेषो न निवार्यते / यथोक्तम्१ नभ ग / 2 सुक्कत ग। 3 सभा च भवति यथा क-ख / 4 °तरम क-ख / न० च०१९