________________ नयचक्रम् / [विधिविधिनये'शर्करासमवीर्यस्तु दन्तनिष्पीडितो रसः। दन्तनिष्पीडितः श्रेष्ठो यात्रिकस्तु विदाहकृत् // ' इति, गोप्रवृत्तिशेषक्षीरदधित्ववत् यथा गोः-धेनोः प्रवृत्तेरपरिसमाप्तायाः क्षीरं दधि नवनीतं वा घृतनिष्यन्दनाविशेषः / तथा पुरुषप्रवृत्तिशेष एव जगदिति ज्ञशेषत्वाद्वा चक्रभ्रान्तिवत् / का वा सा प्रवृत्तिः? प्रवर्तमानपुरुषव्यतिरिक्ता सर्वस्य ज्ञशेषत्वात् , दृष्टान्तं चक्रभ्रान्तिः / यथा कुलालप्रयत्नभ्रमितस्य चक्रस्य भ्रान्तौ कुलालप्रवृत्तिशेपत्वं ज्ञशेषत्वमेवं दध्यादेरपि ज्ञशेषत्वम् / गोस्य शेषत्वं दनो गोभुक्ततृणाद्याहारस्य रसरुधिरादिपरिणतस्य ज्ञमन्तरेण क्षीरदध्यादिभावो नास्ति / नन्वित्यनुज्ञापने / चक्रभ्रान्तावपि को भवितेति प्रत्यपेक्षायां जिज्ञासायां मूलभवितावश्यापेक्ष्ये घटभवनव्यवहारे मृद्वत् , यथा पिण्डशिवकव्यवस्थाक्रमेण घटभवनव्यवहारे मृदेवाद्या भवित्री / तथेहापि चक्रभ्रान्तौ भवनव्यवहारत्वान् मूलभवितद्रव्यमपेक्ष्यम् , परतः परतोऽपि येन भूयते यद्भवति तदेव मौलं कारणं तदेवेत्यर्थः / तस्माद् घटभवनमृद्वत् भ्रान्तिभवने कुलालाद्यपेक्ष्य कुलालशेषभ्रान्तिवञ्च ज्ञशेषं सर्वम्, इतरथासौ नैव स्याद्भवितुरभावाद्वन्ध्यापुत्रवदमूलत्वादित्यर्थः। स्यान्मतम्-अचेतनानामपि अभ्रादीनां चेष्टादर्शनाद् ज्ञप्रयोगमन्तरेण प्रवृत्तिर्दण्डादीनामिति / एतच्चायुक्तम् / ज्ञस्यैव सुप्तावस्थत्वात् / न च चक्रदण्डादिकरणनिरीहत्वात् / न च चक्रदण्डादि स्वत एव भवति करणनिरीहत्वात् करणत्वानिरीहाणि निरीहत्वात् नै स्वत एव ज्ञातुर्यत्नमन्तरेण तद् यत्नशेष वान्तरेण तस्यैव सुप्तावस्था दण्डचक्रादिनिस्पन्दभूता निश्चेतनीभूता भवितुमर्हति / तस्मात् सापि सुप्तावस्थान्यस्य चेतनस्यैव वृत्तिभवितुमहेति / दधीव पयसः / यथा दधि पयसोऽवस्था तथा दण्डचक्रादि ज्ञस्यैव कुलालस्य, एतेन दध्याद्यपि ज्ञभवनमाख्यातमेव ज्ञशेषसुप्तावस्थत्वात् / तस्यापि दध्यादेः कुलालयत्नशेषचक्रदण्डादिवद् ज्ञयत्नं ज्ञयत्नशेष वान्तरेण प्रवृत्त्यभावात् / ज्ञवृत्तिमात्रत्वमेवेत्यर्थः / एतस्यार्थस्य भावनार्थ दृष्टान्तमाह-यथैव हीत्यादि / यथैव हि रूपरसगन्धस्पर्शशब्दा अमूर्तत्वेन सूक्ष्मां वृत्तिमत्यजन्त एवेत्यादि / सूक्ष्मपूर्वकत्वात् / स्थूलस्य सूक्ष्मतां निरूप्य स्थूलत्वं निरूपयतिन हि ते रूपादयः प्रतिनियतचक्षुरादिविज्ञानं प्रभावितखरूपा मूर्ताः स्थूला इति वा केनचिदिष्टाः, तसादमूर्तास्तझावोऽमूर्तत्वं तेन ह्यमूर्तत्वेन वृत्तिः सैव वा सूक्ष्मा तामत्यजन्तोऽजहत एव / खप्रवृत्तिप्रभावावबद्धमूर्तत्वप्रक्रमात् खया प्रवृत्त्या प्रभावन वाऽवबद्धो मूर्तत्वेन प्रक्रमो येषां ते स्वप्रवृत्तिप्रभावावबद्धमूर्त१ वाधिको क-ख। 2 तत्वत क-ख। 3 वाक्येन निर्दिष्टाः क। 4 भवा ग /