________________ असत्कार्यवादः] न्यायागमानुसारिण्यलङ्कृतम् / 147 त्वप्रक्रमाः परमाणवः,रूपादीनामात्मीयया प्रवृत्त्यावबद्धो मूर्तत्वेन प्रक्रमः परमाणूनां सभेदानां तान् परमाणूनध्यास्येति सृष्टेः क्रमं दर्शयति दृष्टान्तरूपेण-तत उत्तरकालं नानाप्रभेदपृथिव्यादिभेदस्थूलरूपा जायन्ते रूपादय एव / पृथिव्या अश्मलोष्टसिकतावज्रादयः प्रभेदाः / हिमकरकादयोऽपाम् / ज्वाङ्गारमुर्मुरादयस्तेजसः। उत्कलिकामण्डलगुञ्जाझञ्झादयो वायोः / वृक्षगुल्मवल्लीलतावितानवीरुधो वनस्पतेः / कृमिपिपीलिकाभ्रमरादिमनुष्यदेवनारका जङ्गमानामेतत् प्रवृत्तेर्निदर्शनम् / प्रभावो ह्यचिन्त्यः। प्रभावस्याचिन्त्यत्वादमूर्तेर्मूर्तसम्भवः / रसवीर्यविपाकप्रभावाश्च वस्तुनः प्रवर्तमानस्य विपरिणामाः। तत्र निदर्शनम् 'चित्रकः कटुकः पाके वीर्योष्णः कटुको रसे। तद्वदन्ती प्रभावात्तु विरेचयति सा नरम् // ' इति / यथैते पृथिव्यादयः सूक्ष्मा मूर्तरूपादिपूर्वकाः स्थूलत्वात् तन्तुपूर्वपटवत् / एवं ततोऽपि परतोऽपि परं रूपादिभ्यः, परतोऽप्यपरमन्यत् / परं वरिष्ठं प्रधानं कारणं रूपादिभावमापद्यत इति प्रतिपत्तव्यम् / तच्च परं यच्च कारणमात्मानममूर्तसूक्ष्मरूपादित्वेन स्थूलमूर्तपरमाणुद्विप्रदेशादिस्कन्धपृथिव्यादित्वेन चात्र विभजमानं प्रवर्तते। किं च इति / रूपादिप्रविभक्तमप्रविभक्तं खतत्त्वं परमाणुद्विप्रदेशादिपृथिव्यादिष्वप्रविभक्तस्वरूपादितत्त्ववत् / किं पुनस्तस्य स्वतत्त्वम् ? तस्य भावस्तत्त्वम् , खार्थिको भावे प्रत्ययः / तदर्शयति-यत्तद्भवति तदेव तत्त्वं / स्खं च खप्रभेदापेक्षया तन्न चा[त्रत्वानुसृतत्वात् परतत्त्वाभावेन विशिष्यते स्वतत्त्वमिति परमतापेक्षया चेति / इतर आह तत् किमिति निरूप्यमाचार्य आह ननु ज्ञातस्वतत्त्व आत्मेति रूपादिभिरेव निरूपितम् / तत् परं कारणमात्माज्ञातखतत्वः / पुनः स्वरूपादिभिरेव निरूपितः रूपरूपक्रियया रूपितं निर्णीतं तु ज्ञानं निर्णयो रूपणमित्येकोऽर्थः / तद्धि रूपणं रूपमिति / यस्मात् कारणाद्रूपणं रूपमिति एषोऽर्थः / आदिग्रहणाद्रसनमास्वादनं रसः / एवं शेषाणामपि रूपणकृतात्मलाभनिरुक्तत्वाद्रूपणता ज्ञानमेव रूपणपर्यायत्वात् / ज्ञानस्य विभक्ताविभक्तं ग्रहणमेव / विभक्तग्रहणं रूपं रसो गन्धः शब्दः स्पर्श इति ज्ञानं रूपमिति / अविभक्तं सर्वेषु, तद् द्विविधमपि ग्रहणमेव रूपम् / भावसाधनत्वाद्रूपशब्दस्य / ननु रूप्यते तत् तेन तस्मिन् वेत्यादि रूपं, न तु कर्मकर्तृकरणाधिकरणसाधनत्वम् , आदिग्रहणात् तस्मै तस्माद् रूपमिति सम्प्रदानापादानकारकभेदेभ्यो रूपमिति भवितुमर्हति / किं कारणम् ? रस्यते स्पृश्यते इत्यादेरपि तत्रैव दर्शनात् / रूपेणोपलक्षितस्य ज्ञानात्मनो वस्तुनो रसादेर्गुणगुण्यद्रव्याद्वा गुणगुण्यव्यतिरिक्ताद्विरुक्तस्यानवस्थानाद्रूपस्य पुरु