________________ 148 नयचक्रम् / [विधिविधिनये पभिन्नपुत्रत्वादिवत् / अनेकसम्बन्धेन पुरुषात् पितृपुत्रभ्रातृभागिनेयमातुलत्वादिधमाः पृथग् नावतिष्ठन्ते। तथा रूपणात्मक रूप रसादिगुणव्यतिरेकेण तद्व्यतिरिक्तपरमाण्वादिद्रव्यव्यतिरेकेण वा नावतिष्ठते / परमार्थतस्तस्मादविभक्तरूपेण तत्त्वात्मका रसादिपरमाण्वादिपृथिव्यादिभेदाः / एवं तर्हि रूपेणाविभक्ततत्त्वात्मकानां रूपवदविभक्तग्रहणं चक्षुषैव स्यात् / रसनादिभिश्च ग्रहणदर्शनात् प्रत्यक्षविरुद्धेयं कल्पनेति चेत् / न, तस्य तत्त्वस्यानेकात्मत्वाभ्युपगमात् / द्विधापि रसाद्यभेदेन द्रव्याभेदेन वा रूपस्याविभक्ततत्त्वात्मकतायामपीत्यादि / यावद्रव्यादीति, शक्यं वक्तुं रूपं रस इति प्रत्यक्षं भेदेन दर्शनात् तस्यानेकात्मकस्य स्वप्रवृत्तिप्रभावावबद्धस्य प्रभेदानामुक्तत्वात् / एवं तावद्रसादिगुणगणसमुदायो नास्त्यन्यः, परस्परतस्ते चान्ये रूपादयः / किन्तु रूपणस्वरूपभेदा एवेत्युक्तम् , स्यान्मतम्रूपादिभ्यो भिन्नमेकं द्रव्यं पृथग्ग्रहणापदेशादित्येतच न, रूपादिभ्यो भिन्नमिदमेकं द्रव्यं तचेति शक्यं वक्तुमिति वर्तते / कस्मात् ? रूपादिव्यतिरिक्तादर्शनात् / पूर्वत्र रूपादन्येषां रसादीनां प्रत्यक्षतो दर्शनाद्रूपमेव, न रसादय इति शक्यं वक्तुम् , इह तु रूपादिभ्यो भिन्नं द्रव्यमिति प्रत्यक्षेणादर्शनादशक्यमिति / कस्यां पुनः कल्पनायां प्रत्यक्षविरोधो नास्ति? / उच्यते,आत्मतत्वाविभक्तग्रहे तु प्रत्यक्षविरोधः। तत् कथं भाव्यते / चैतन्यमेकमेव रूपादिविभक्तमप्यविभक्तं चैतन्याव्यवच्छेदान्वयाद्रूपेण सामान्येनाविभक्तमेवैकत्वाद्रूपादिरूपेण ग्रहणविभागाद्विभक्तमपि सत् तदेकमेवानेकात्मकत्वाद्विभक्तमविभक्तं चेति प्रत्यक्षदर्शनं रसादिभेदरूपं रूपणाभेदरूपं च न विरुध्यते / रूपादिरूपत्वाचैतन्यस्य / यथा परैः परिकल्पितं भिन्नमिति, तत्र च रूपादिचैतन्येभ्यो भिन्नमत्र दर्शनाविरोधकारि सम्भवति / बाह्यं रूपरसादिगुणसमुदायात्मकं तदाश्रयद्रव्यात्मकं वा, किन्तु तदेव रूपादिचैतन्यात्मतत्त्वाविभक्तग्रहे तु दर्शनाविरोधकारि, चैतन्यस्यैव विभक्ताविभक्तात्मकत्वात् तथा तदनुभवदर्शनात् स्वरूपपरिच्छेदे ततोऽन्यस्य प्रमाणस्य सम्भवात् / किं तर्हि ? स एव तु व्यतिरेकस्यानुपपत्तः, ज्ञानात् पृथग्भूतार्थस्यानुपपत्तेज्ञानस्वतत्त्वास्मैव ग्राह्यो ग्राहकश्चैषितव्यः। अभिमतात्मप्रतिपत्तिवत्। यथा त्वभिमतः 'प्रति शरीरं शरीरादिव्यतिरिक्तमात्मैवात्मानं शरीरादींश्च बाह्यानर्थान् प्रतिपद्यमानोऽपि खात्माधिगमे प्रमाणान्तराभावाद् ग्राह्यो ग्राहकश्च रूपादिभेदेन ज्ञानसुखादिभेदेन च स्वयमेव विपरिवर्तमान' इति / निदर्शनमप्याह-वुद्धयादीत्यादि / बुद्धिसुखदुःखेच्छाद्वेषादिकालाकाशदिगात्माद्यमूर्त सूक्ष्ममुच्यते / रूपादयस्तु स्थूला एव प्रत्यक्षत्वात् / सूक्ष्मस्थूलत्वादि च तेषां यथासंख्यं बुद्ध्यादीनां खतत्त्व एवेत्यभि 1 प्रभेदेनानुक्त क-ख। 2 रूपेण क-ख। 3 भूवा क-ग /