________________ असत्कार्यवादः ] न्यायागमानुसारिण्यलङ्कृतम् / 149 सम्भन्त्स्यते / क्षीराद्यत्यन्तापरिदृष्टतत्त्वेत्यादियुगपद्भाविनः क्षीरावस्थायामत्यन्तापरिदृष्टा धर्मास्तत्त्व एव दृश्यन्ते / तद्यथा आद्रवो रसः, आकठिनं दधि, नूनमद्दुः कठिनः / मस्तु द्रवमेव / आदिग्रहणात् क्षीरमपि धेनावत्यन्तापरिदृष्टेः धेन्वभ्यवहततृणगोरक्तादावत्यन्तापरिदृष्टाः / धेनुगतरसरुधिरादिपरिणतिविशेषक्रमागतप्रश्रवादयः तत्त्व एव प्रविभागेन व्यवस्थितास्तेषां व्यवस्थावत् सर्वस्य चेतनाचेतनस्य जगतश्चेतनात्मनि पुरुषेऽत्यन्तापरिदृष्टस्य व्यवस्था युगपदेव / यथा च तस्यैव क्रमभुवोऽन्ये धर्मा माधुर्याम्लादयः तथा पर्यायास्तत्त्व एव ज्ञानात्मके तस्यैव / नावस्थाश्चैताः स्वमनीषिकया उच्यन्ते / किं तर्हि ? जिनवचनार्णवविघुष एवैताः / तद्यथा 'से किं भावपरमाणू ? भावपरमाणू वण्णवंते गंधवंते फासवंते' इति वर्णादीनां तत्त्व एवानेकात्मके तदात्मनां भावात् / एवं चेत्यादि / अस्मिन् ज्ञानात्मकैककारणविवर्तमात्रभेदवादे युक्त्यन्तरप्रतिपाद्यं सार्वज्ञ्यमयत्नेन लब्धं पुरुषास्मकत्वात् सर्वस्य / न हि पुरुषः कश्चिदात्मानं न वेत्ति / यथा तृणादिष्वत्यन्तापरिदृष्टं दधित्वं तत्कारणत्वात् तदात्मकं तथा सर्वज्ञताप्यस्य / का सा सर्वज्ञता ? ज्ञत्वमेवोत्कर्षपर्यन्तवृत्तं तदेव ज्ञत्वमुत्कर्षपर्यन्तं निरतिशयं क्वचित् प्रामोति तारतम्यात् , तरतमभावस्तारतम्यम् , ज्ञतरो ज्ञतम इति परस्परं उत्कर्षभेदस्तेन तारतम्येन युक्तत्वात् / तत्पर्यन्तेन निरतिशयेन विना न भवितुमर्हति पर्वतोन्नतिवत् / यथा पर्वतोन्नतिस्तारतम्ययुक्तत्वात् विन्ध्यसह्योजयन्तपारियानेन्द्रपदमलयमहेन्द्रहिमवत्कैलासादीनामन्यतमस्योत्कर्षपर्यन्तं प्राप्तया निरतिशयोन्नत्या विना न भवति, एवं ज्ञत्वमपि / योऽपि कैलासमन्दरं वा नाभ्युपगच्छति तस्यापि शुषिरस्थावकाशदानसमर्थस्य पृथिव्याद्याश्रयस्य क्षेत्रस्य सद्भावात् / तस्य च समन्ततोऽनन्तत्वान्महन्महत्तरं महत्तममिति प्रमाणोत्कर्षस्य तत्र निरतिशयस्य दर्शनात् क्षेत्रप्रमाणवदिति दृष्टान्तः / अस्यामेव प्रतिज्ञायां हेत्वन्तरं प्रत्यवगमकात्मकत्वात् / प्रत्यवगमयतीति प्रत्यवगमकं तदेव ज्ञत्वं ततश्च निरतिशयोत्कर्षपर्यन्तम् / तदृष्टान्तः। खद्योतादितारतम्यवृत्तोड्योतवदिति / यथा खद्योतमप्यग्निप्रदीपतारकादिषु तारतम्येन वृत्तत्वादुझ्योतो भास्करे निरतिशयोत्कर्षपर्यन्तो दृष्टः / तथा ज्ञानमपि क्वचिदिति / इतर आह--ननु वक्तृत्वादीनामित्यादि / ननु वक्तृत्वशरीरित्वनामववजातिमत्त्वादीनां धर्माणां सार्वज्यव्यभिचारादसर्वज्ञतैव / किं चान्यत्-अत्रैवेन्द्रियप्रत्यक्षानुमानयोर्विषये प्रकर्षोत्कर्षदर्शनाचासर्वज्ञतैवेत्येतच्च न, वक्तृत्वस्यापि 1 मूलमृदुः क / 2 तावस्थाः / नैताः स्वमनीषिका / उच्यते ग / 3 स किं भावपरमाणुः ? भावपरमाणुः वर्णवान गन्धवान स्पर्शवान् / 4 नग। 5 विना भग।