________________ 150 नयचक्रम् / [विधिविधिनयेतारतम्यादुत्कर्षवृत्तेर्विपर्ययेण भवितव्यमित्यभिसम्बध्यते / वक्तृत्वादेव सायं तावद् ब्रूमः। वक्ता वक्तृतरो वक्तृतम इत्युत्कर्षपरम्पराया निरतिशयनिष्ठत्वात सर्वस्य वक्ता तथ्यस्य वेत्यवश्यमेषितव्यम् / तच्च सर्वस्य तथ्यस्य च वक्तृत्वात् तज्ज्ञ इति वक्तृत्वादेव सर्वज्ञोत्कर्षसिद्धरयुक्तः साश्यप्रतिषेधः। यदपि चेन्द्रियविषये तत्पूर्वकानुमानविषये चोत्कर्षतारतम्यमुक्तं तदपि नित्यानुमेयमहापरिमाणाकाशष्टान्तसाधम्योददोषाय / स्यान्मतम्-आकाशासिद्धेरदृष्टान्तमित्येतच्चायुक्तम् , अनुमानसद्भावात् / सातिशयपरिमाणकं वस्तु सति पक्षे भावविशेषत्वाद् घटवदिति / विभक्तपदार्थवादिमतापेक्षयैतदनुमानमविभक्तैककारणविवर्तनाद्भेदवादे वक्ष्यत्युत्कपनिरतिशयत्वम् / भावतारतम्ययुक्तत्वात् साधितं साधयिष्यमाणार्थानुसारेण प्रतिजानानः भावितार्थोपनयनार्थमाह-असर्वातथ्याभिधायिताभ्यां विपर्ययेण भवितव्यमसर्वज्ञताया वक्तृत्वात्सर्वज्ञताया वा अवस्थात्वाद् वक्तृत्वाव्यभिचारिण्या असर्वज्ञताया वाक्यरूपेणानुमानात्मतया स्थिताया इतरस्याः पदार्थतयेष्टाया वा अवस्थात्वात् / सा द्विविधाप्यसर्वज्ञतावस्थैव / तथा वस्तुतत्त्वाद्विशेषत्वादित्यादिहेतुसौलभ्यं दर्शयति, निदर्शनम्-ज्ञत्वाज्ञत्वावस्थावत् / शं चेतनं स्थावरजङ्गमं अरण्यकाष्ठादि तद्विधिविधिनयदर्शनेन जाग्रत्सुषुप्तावस्थे ते चैतत् पदार्थविषयं निदर्शनं वाक्यविषयं नीलोत्पलरक्तोत्पलवत् / यथा ज्ञमज्ञेनाशं च शेन विना न भवति, नीलोत्पलमनीलेनानुत्पलेन रक्तोत्पलेन वा विना न भवति, तद्विपर्ययेण वाक्याथेन तथा सार्वज्यं चासावश्येन विना न भवत्यसार्वज्यं वा सार्वज्येनेति / इतर आह-धूमवत्त्वाग्निमत्त्वावस्थाविपर्ययेणापि तर्हि भवितव्यं तत्त्वतः / धूमसावस्थात्मकार्यस्याश्यव्यभिचारिणः क्वचित् कदाचिदप्यनग्नावदर्शनादवस्थात्वं संशयहेतुरित्यभिप्रायः। आचार्य आह-को विचारः? / निश्चितमेवैतदनग्निरपि भवत्येवेत्यर्थः / तेनापि विपर्ययेणापि तत्त्वतो भवितव्यम् / नन्विदमेव वर्तते ज्ञानात्मकैककारणस्याम्यनग्यादिखावस्थात्मकत्वप्रतिपादनस्य प्रस्तुतत्वात् / एवमग्निं व्यभिचारयिष्यामः / परमते तावत् प्रतिज्ञार्थ भावयामः / तेन त्वित्यादि, ज्ञानात्मकत्वादात्मनस्तद्विजृम्भितविकल्पत्वाच्च शब्दस्य / यदुच्यते 'यच्छब्द आह तदस्माकं प्रमाण मिति / सोऽपि शब्दो न पुरुषप्रवृत्तिमन्तरेण भवितुं वक्तुं वाहतीति, पुरुषस्वरूपस्यैव तस्य वचनं युज्यते नान्यथेति / अस्मिन्नर्थे कारणमाह ---उक्तत्वाद्वचनत्वाव्याकरणवत् पौरुषेयमिति / सर्वस्य पुरुषात्मकत्वं दर्शयति हेतुसौलभ्यं यथावद्वस्तुत्वादपीत्यनेन दर्शयति, सर्वस्य तदात्मकत्वात् तदवस्थामात्रत्वादित्यादि सर्वो हेतुरस्मिन्नर्थे भवतीतरथा स नैव वचनं स्याच्छब्दोऽपौरुषेयत्वात् खरविषाणवत् / किं च-अवचनं न वचनमित्यनेन नैव वा स्यादपुरुषात्मकत्वाद्वन्ध्यापुत्रवत् /