________________ असत्कार्यवादः] न्यायागमानुसारिण्यलङ्कृतम् / 151 आह-नन्वित्यादि, यदुच्यते त्वयैकस्मिन्नेव काले तस्यैवैकस्य वस्तुनोऽग्नित्वमनग्नित्वं चेति प्रत्यक्षादिविरुद्धम् / सामस्त्येनाभावात् / आदिग्रहणादनुमानागमलोकव्यवहारविरुद्धमिति / / आचार्य आह–ननु प्रत्यक्षत इत्यादि / सर्वप्रमाणज्येष्ठमूलप्रत्यक्षत एव बीह्यादि, आदिग्रहणादाम्रजम्बूफलादि, एकं वस्त्वेकस्मिन्नेव बीह्यवस्थानकाले भूम्यवादिसर्वात्मकत्वाद्बीहेः। कतमोऽसौ व्रीहिः क्षित्युदकबीजादिगतवर्णगन्धरसस्पर्शादिधर्मपरिणतिमन्तरेणेति / भूम्यादेः परस्परधर्मापत्तेः सर्वात्मकत्वं, सर्वोत्मकत्वात् तन्मयस्य त्रीहेरप्यबादिवत् सर्वात्मकत्वं, तस्मादबादिरेव व्रीहिस्तेन विनाऽभावात् / तस्य तथाभवनात् व्रीहिखात्मवत् , तसान्नास्ति प्रत्यक्षादिविरोधः। तत्काले तथाऽग्रहणादप्रत्यक्षतेति चेत् , स्यान्मतम्-व्रीहिकाले भूम्या बाह्यात्मकस्य वस्तुनः, तथा भूम्यवादिप्रकारेणाग्रहणान्न हि तद्वस्तु प्रत्यक्षं स्यात् / न हि तद्वस्तु व्रीहिमात्रमेवेति / उच्यते-सर्वाप्रत्यक्षता तर्हि स चापीत्यादि / सर्वस्य वस्तुनः सदापि सर्वेणात्मस्वरूपेण ग्रहणाभावात् न कस्यचित् प्रत्यक्षत्वं स्यात्, तदर्शयति-नहि यद्यथा भवतीत्यादि / व्रीहेरपि प्रत्यक्षत्वं नास्ति यथा विद्यते तथेन्द्रियग्रहणाभावात् , इन्द्रियेण तु तुषमात्रदर्शनात् तन्मात्रस्यात्रीहित्वात् / कणाद्यदर्शनात् कणमात्रस्याप्यत्रीहित्वात् , कुडवाद्यदर्शनादित्यादिरूपरसगन्धस्पशानामन्यतमस्यैवेन्द्रियविषयत्वात् / अत आह—तुषकणादिरूपादिमात्रग्रहणातत्वाद्रीह्यादि चक्षुरादिप्रत्यक्षस्य / स्यान्मतम्-रूपस्य रूपमात्रत्वात् तर्हि प्रत्यक्षत्वमित्येतच्चायुक्तम् / यावद्रूपग्रहणवृत्तत्वाद्रूपादिप्रत्यक्षस्य रूपरसगन्धशब्दस्पर्शा रूपादयस्ते हि परस्पराविनिर्भागवृत्तयस्तेषु रूपमात्रग्रहणं कथं यथार्थ प्रत्यक्षं स्यादिति नास्ति प्रत्यक्षं, तस्मात् स्थितमेतत् सर्व सर्वात्मकं ज्ञानस्वतत्त्वैककारणविजृम्भितमात्रं चेति / तस्यैवेदानीं स्वरूपोपदर्शनार्थमुच्यते-तस्य चतस्रोऽवस्थाः / तस्यानन्तरप्रतिपादितचैतन्यतत्त्वस्येमाश्चतस्रोऽवस्थाः।जाग्रत्सुप्तसुषुप्ततुरीयान्वाख्या। जाग्रदवस्था, सुप्तावस्था, सुषुप्तावस्था तुरीयावस्था / एताश्चान्वर्थाः / एताश्च बहुधा व्यवतिष्ठन्ते / चतुर्थामवस्थां मुक्त्वा तिसृणामेकैकस्याः प्रतिप्रक्रियं संज्ञादिभेदाल्लोकव्यवहारभेदाचानेकभेदत्वात् / चतुर्थी पुनरेकस्वरूपैव विशुद्धत्वात् / अथ सोपि स्वरूपसामर्थ्यात् सर्वात्मनैवानेकधा विपरिवर्तते / तद् यथा जं जं जे जे भावे, परिणमति पओगवीससा दव्वं / / तं तह जाणाति जिणो, अपजवे जाणणा णत्थिं // आव०नि०२६६७ 1 तस्यानास्ति ग। 2 भूम्याच्छाद्या ग। 3 कुण्डका ग / 4 बद्धा ग। 5 वापि ग / ६-७°इ। 8 यद् यद् यान् यान् भावान् परिणमते प्रयोगविस्रसाद्रव्यम् / तत् तथा जानाति जिनोऽपर्यवे परिज्ञा नास्ति /