________________ नयचक्रम् / [विधिविधिनयेकास्ताः ? उच्यन्ते-सुखदुःखमोहशुद्धयः सत्त्वरजस्तमोविमुक्त्याख्याः कार्याणि वासां यथासंख्यं तिसृणाम् / तद्यथा-प्रसादलाघवप्रसवाभिष्वङ्गोद्धर्षप्रीतयः / दुःखशोषतापभेदापस्तंभोद्वेगापद्वेषाः / वरणसदनापध्वंसनबीभत्सदैन्यगौरवाणि / चतुर्थ्यास्तु शुद्धं चैतन्यं सकलस्वपरिवर्तप्रपञ्चसर्वभावावभासनम् / अथवा ऊर्ध्वतिर्यगधोलोका अविभागा वा यथासंख्यमेव / ऊर्ध्वलोको जाग्रदवस्था, तिर्यग्लोकः सुप्तावस्था, सुषुप्तावस्थाऽधोलोकः / अविभागावस्था तुरीयावस्था / संज्ञिअसंज्ञि अचेतनभावा वा / संज्ञिनः समनस्काः देवमनुष्यनारकतिर्यञ्चो जाग्रति / सुप्ता असंज्ञिनः पृथिव्यवग्निवायुवनस्पतिद्वित्रिचतुरिन्द्रियामनस्कपश्चेन्द्रियाः / काष्ठकुड्यादयः सुषुप्ताः / भवनमानं भावः / सर्वत्राविभागा तुरीयावस्थेति / अत्राहविभागात्मनस्तस्यैवात्मनश्चतुरवस्थत्वात् कालभेदाभावाच चतस्रोऽपि प्रथमद्वितीयतृतीयतुरीयाख्याः स्युरित्येतदयुक्तम् / यस्मानियता एवैता विमुक्तिक्रमात् / सर्वज्ञता वा तुरीयमिति सुषुप्तावस्थायाः स्थिरीभूतचैतन्यायाः सुषुप्तावस्था, विमुक्तमलत्वाद्वितीया, मिथ्यादृष्ट्यादिका तृतीया, सम्यग्दर्शनचारित्रात्मिका मुक्तिप्रत्यासत्तेः सर्वज्ञता चतुर्थी / तत्पुनस्तुरीयं निरावरणमोहविघ्नं, निर्गता ज्ञानदर्शनावरणमोहविना अस्मिन्निति निरावरणमोहविघ्नं; मोहस्यैव महास्वापत्वात् / एकेन्द्रियादिषु स्त्यानचिउदयसद्भावाद्विशेषेण स्वापः ।अविशेषेण तु सर्वप्राणिनां समोहानां मिथ्यादृष्टयचारित्राणां स्वापात् / 'सुत्ता अमुणी सया मुणिणो सया जागरंति' इति / तच तुरीयं कैवल्यं, विगतावरणमोहविघ्नं रागद्वेषमोहप्रतिघातेभ्यो विविक्तादर्शनं विशुद्ध प्रतिपूर्णमेकं स्वतत्त्वमिति तत्पर्यायाः। किं रूपं तदिति चेत् / निद्रावियोग आत्यन्तिकः। तद्व्याख्यानं निद्रासम्बन्धि जाग्रदाद्यवस्थाविलक्षणमात्मखतत्त्वं निद्रासम्बन्धिन्यस्तिस्रोऽवस्था जाग्रत्सुप्तसुषुप्ताख्याः। तत्तद्विलक्षणमात्मनः खं तत्त्वं शुद्धं चैतन्यं स एवान्येन व्याख्याविकल्पेन परमात्मा विमुक्तः सर्वे एव व्याख्यातो वेदितव्यः। करणात्मानं कार्यात्मानं च व्याख्यास्यामः। तत्र तावन्महामोहेत्यादि, यावत् करणात्मा दर्शनचारित्रमोहोदयेन / यस्मात् सुप्ता मिथ्यादृष्टयोऽचारित्राश्च प्राणिनः। तस्मान्महामोह एव निद्रा, तदुदये स्वापः। तत्क्षये विबोधः। यथोक्तम् * 'यदा तु मनसि क्लान्ते, बुद्ध्यात्मानः श्रमान्विताः। विषयेभ्यो निवर्तन्ते तदा स्वपिति मानवः // इति / तस्या निद्रायाः क्षयोपशमोऽनन्तानां पुरुषपरिणत्यापन्नाष्टविधतद्घातिकर्मणामुदितानां क्षयादनुदितानामुपशमाल्लब्धिशक्तिरुत्पद्यते, तस्मिन्नेव पुरुषे ज्ञानदर्शन१ सुप्ता अमुनयः सदा, मुनयः सदा जामति /