________________ पुरुषवादः] न्यायागमानुसारिण्यलङ्कृतम् / वीर्याविकल्पतया घातिकर्मक्षयोपशमशक्त्या निर्वर्तितानि, कृष्णसारशवलपक्ष्मपुटाकारेण चक्षुः शेषेन्द्रियाणि च यथास्वमाकारैः तान्येव चोपकृतान्युपकरणत्वेन मसूरकक्षुरप्रातिमुक्तचन्द्रकयवनालिकानेकसंस्थानः, ततस्तत्प्रत्ययं लब्धिजनितनिवृत्त्युपकरणेन्द्रियप्रत्ययं चैतन्यमुपयोगो जायते। 'लब्ध्युपयोगौ भावेन्द्रियम्' (तत्त्वार्थ २।१८)इति वचनात् / तच्च प्रत्यक्षादिप्रत्यपेक्षणात्मकत्वात् / आदिग्रहणादनुमानागमात्मकत्वाद् जाग्रदवस्था। सैव करणात्मा। सुप्तजाग्रदवस्थयोश्चान्तरावस्था सुप्तजागरिका / तत्र वनदर्शनं भवति / यथोक्तम्-'णो सुत्ते सुमिणं पासइ / सुत्तजागरिआए वट्टमाणे सुमिणं पासई।' सा चापि जाग्रदवस्था करणात्माख्या,चेतनात्मा चेतना एवात्मा / तस्यैवार्थस्य जागरणात्मत्वात् / द्रव्यपुरुषवत् / द्रव्यपुरुषो भूतो भावी वा, यथा राजाऽऽसीद्भविष्यति वेति राजैवेत्युच्यते / करचरणगतचक्रपद्माद्याकृतिरेखादिलक्षणदर्शनात् तदेव हि शरीरमनुभूतराज्यं भविष्यद्राज्यं वा राजा, तथा करणात्मानः स्वपन्तोजाग्रतो वा चेतनात्मैव / अनुपयुक्तो वा द्रव्यपुरुषः तस्मिन् ज्ञेयेऽनुपयुक्तत्वात् / यथानुपयुक्तः पुरुषो नात्मत्वेन परिणमित आत्मस्वरूपज्ञानत्वेनापरिणमितो द्रव्यपुरुषो द्रव्यात्मैव / तथा करणात्मा ज्ञानोपयोगरहितोऽपि चेतनात्मैवेति। एवं तर्हि परमात्मनः शुद्धचेतनात्मत्वात् सर्वात्मकत्वाच्च तस्य करणात्मावस्थानुपपत्तिरिति चेत् नेत्युच्यते / चैतन्यस्य सर्वात्मकतायामपि सत्यां निद्राग्रहणात् / सुप्तोत्थितस्य सावशेषनिद्रस्येव यज् ज्ञानं सा जागरावस्था करणात्मा / व्यपगतनिद्रस्यैव सर्वज्ञावस्थेत्यनयोः करणात्मपरमात्मावस्थयोर्विशेषः / स्यान्मतम्-अर्थस्वरूपाग्रहणात् करणात्मावस्थयोः परमात्मात्यन्तवैरूप्यमित्येतच्चायुक्तम् / कस्मात् ? अर्थस्य च तथातथात्वात् / ज्ञानमेव स ह्यर्थः / पुरुषसृष्टेरनेकरूपतायाः प्रतिपादितत्वादेकात्मविपरिवर्तोऽप्यनेकरूप एव / तेन तेन प्रकारेण तस्य भवनात् तथातथात्वात् तदपि करणज्ञानं ज्ञानमेव, करणमपि ज्ञानमेव वा ज्ञानविपरिवर्तत्वात् / एवं तावजाग्रदवस्था करणात्मा ज्ञानमेव / यथा चेदं ज्ञानं तथा जाग्रदवस्थाशेषः सुप्तावस्थाप्रारम्भमात्रं सुप्तावस्था, साऽपि ज्ञानमेव संशयादि ईषत्सुप्तता अयमपि करणात्मा / 1 नो सुप्तः स्वमं पश्यति, सुप्तजागरिकायां वर्तमानः स्वमं पश्यति / आगमोदयसमितिद्वारामुद्रितावृत्तौ त्वेवं पाठः- 'सुत्ते णं भंते ! सुविणं पासति, जागरे सुविणं पासति, सुत्तजागरे सुविणं पासति ? / गोयमा ! नो सुत्ते सुविणं पासइ, नो जागरे सुविणं पासइ, सुत्तजागरे सुविणं पासह // भग० श. १५-उद्दे० 5 सू० 577 छाया-सुप्तो भगवन् ! स्वप्नं पश्यति, जाग्रत् स्वप्नं पश्यति, सुप्तजागरितः स्वमं पश्यति ? गौतम ! नो सुप्तः स्वमं पश्यति, नो जागरितः स्वमं पश्यति, सुप्तजागरितः स्वमं पश्यति / ' २चेतस्यै क-ख। 3 थायं घ। 4 मुदनो क-ख। न० च०२०