________________ 154 नयचक्रम् / [ विधिविधिनयेसंशयादिज्ञानम्,आदिग्रहणाद्विपर्ययानध्यवसायौ। सा च सुप्तावस्थापि सतीषत् सुप्तता ज्ञानमेव पूर्ववदेव सर्वात्मकतायां वस्तुनः / तथातथात्वात् / स्थाणुः स्यात् पुरुषः स्यादित्यूचंतासामान्यस्य वस्तुत्वात् / यदि स्थाणुर्वयोनिलयनादिविशेषात् / यद्युत्थायोपविष्टत्वकरचरणचलनादिविशेषात् पुरुष इत्युभयथापि तस्य वस्तुनस्तथातथात्वात् ,स्थाणुत्वपुरुषत्वाभ्याम् / तथा विपर्ययोऽपि विज्ञानमेव तथातथात्वात् / अर्थस्य स्थाणुपुरुषत्वाभ्यां विपर्ययेण चेति सैव व्याख्यावापि। साधनम्-चेतनात्मा सुप्तत्वाद्रव्यपुरुषवत् / पूर्ववदेव व्याख्या / सुप्तत्वं जाग्रत्वं वा चेतनस्यैव भवति नाचेतनस्य कस्यचित् / यथा चैतद् ज्ञानम् / तथा अनध्यवसायोऽपि, न अध्यवसायोऽनध्यवसायोऽनभिव्यक्तबोधः। सोऽपि संशयविपर्ययाभ्यां विशिष्यमाणः स्वापः सुप्तत्वात् / ज्ञानमेव चेतनात्मकत्वाजागरितवत् / यथा जागरितावस्था ज्ञानमेव चेतनात्मकत्वात् , तथाऽनध्यवसायोऽपि चेतनावत् / यस्मात् तदेव चेतनमचेतनं च,तस्यैव / बहुचेतनत्वादल्पचेतनत्वात् / चेतनं च तदचेतनं चेति विग्रहात् / चेतनाया एवा चेतनात्वाद्वा संशयादिवत् / आदिग्रहणाद् विपयेयनिर्णयौ गृह्यते तद्वचेतनाचेतनावत् / ज्ञानमेवानध्यवसायः / अथवा सुप्तवत् / यथा हि सुप्त उच्छासनिःश्वासादिक्रियास्वव्यक्तं चेतयमानोऽपि ज्ञाता, एवमनध्यवसायोऽपि करणात्मैव / व्यक्ततरः वापः विशिष्टस्वाप इत्यर्थः। एवं करणात्मा व्याख्यातः / इदानी कार्यात्मा व्याख्यायते--यथा चैतदित्यादि / यथा चैतदनन्तरव्याख्यातमनध्यवसायविपर्ययसंशयावितथप्रत्यक्षादि ज्ञानं चैतन्यं तथाऽनध्यवसायमपगताध्यवसायमनध्यवसायाचेतनाभिमतं द्रव्येन्द्रियपृथिव्यादि कार्यात्मा / आत्मा आत्मनैवात्मत्वेन परिणामितत्वादित्यादयो हेतवो वक्ष्यन्ते / सा च सुप्तावस्था द्रव्येन्द्रियम् / निर्वृत्युपकरणद्रव्येन्द्रिये व्याख्याते प्राक् / ते च पुरुषेणात्मत्वेन परिणमिते' भावेन्द्रियं त्वात्मैव लब्धियुक्त उपयुक्तो वा / पृथिव्यादि च विपरिवर्तमानात्मत्वपरिणामापन्नमेव पृथिव्यप्तेजोवायुवनस्पतिद्वीन्द्रियादि तत्कार्यात्मा। सुषुप्तावस्था तदपि ज्ञानात्मकमेव सुषुप्तावस्थात्मकत्वात् / हालाहलानुविद्धमदिरापानापादितनिद्रासुषुप्तवत् / यथा हालाहलविशेषेण सद्योमारकेणानुविद्धां मदिरां पीत्वा तदापादिताया निद्राया वशमुपगम्य सुषुप्तश्चेतन एव सन्न किश्चिचेतयते पुरुषस्तथा द्रव्येन्द्रियपृथिव्यादिकार्यात्मा / अथवाऽनध्यवसायवत् / यथा जागरादिपूर्वव्याख्यातावस्थाभ्यो विशिशा सुप्तावस्थाऽनध्यवसायाख्या ज्ञानमेव, तद्वत् कार्यात्मावस्था द्रव्येन्द्रियपृथिव्यादि ज्ञानमेव / यथा निद्रानिद्राप्रचलाप्रचलास्त्यानर्द्धिवेदनीयानामुत्तरोत्तरोत्कर्षभेदावृतज्ञानशक्तेराचैतन्यविशेषस्तदा१ तो ख-ग। 2 °न्द्रियत्वमेव क-ख। 3 विषेण ध। 4 अर्थवात ख /