________________ 155 पुरुषवादः] न्यायागमानुसारिण्यलङ्कृतम् / वरणापगमविशेषापादितचैतन्यविशुद्धयुत्कर्षपर्यन्तप्राप्तसार्वज्यवद्वा चैतन्यावरणप्रकर्षपर्यन्तप्राप्तं पृथिव्यादिज्ञानमेव, कर्मणश्चाष्टविधस्य सप्रभेदस्य पुरुषपरिणामैक्यापत्तेानात्मत्वमिति चैतन्यमेव पृथिव्यादेः। अत आह-योऽसौ पुरुषस्तदेव तत् / द्रव्येन्द्रियपृथिव्यादि, तेनात्मत्वेन परिणमितत्वात् / को वात्र भेदः परिणामकपरिणम्ययोः? इत्याह-तव्यत्वात् / स एव द्रव्यं तद्रव्यं सप्रभेदं कर्म / तस्मात् तद्रव्यत्वाद्भूम्यबादि ब्रीहित्ववत् / यथा भूम्यम्ब्वायेव बहुव्रीहित्वेन परिणतत्वात् तद्रव्यत्वाद्वीहिर्भूम्यादिरेव भूम्यादिभिरेवात्मत्वेन परिणमितत्वाद् व्रीहिभूम्यादिरेव / तथा पृथिव्यादि पुरुष एव चेतनात्मकः / इतश्च योऽसौ पुरुषस्तदेव तत् , तत्कार्यत्वात् / यद्यस्य कार्य तदेव तत् , पटतन्तुवत् / यथा तन्तूनां कार्यत्वात् पटस्तन्तुरेव, तथा पुरुष एव पृथिव्यादि पुरुषपूर्वकत्वप्रतिपादनस्य कृतत्वात् / इतश्च तेन विनाऽभूतत्वात् तदेव तत् / यद् येन विना न भवति तदेव तत् / यथा रूपादय एव पृथिव्यादयः / पृथिव्यादय एव रूपादयः / तेऽन्योऽन्यैर्विना न भूतत्वात् अन्योन्यात्मकास्तथा पुरुष एव काष्ठाद्यपि / किं चान्यत्-तद्वयतिरेकेणाभावात् / यद्धि यद्यतिरेकेण न भवति तदेव तत् / यथा घटस्वतत्त्वस्वप्रत्ययादित्वम् / तद्देशत्वाच, तस्य देशस्तद्देशस्तत्पुरुषस्यैव देशोऽवयवः स्वात्मा रथ्यापुरुषपाण्यादिवत् / तदेशत्वं सृष्टेस्तत्पूर्वकत्वादिति हेतुः / यो यद्देशः स तत्स्वतत्त्वमेव / किमिव ? घटस्वतत्त्वप्रत्ययादित्ववत् / यथा घटस्य प्रत्ययं नवमध्यपुराणता च घटस्वतत्त्वमेव, तथा पृथिव्याधचेतनमपि चेतनपुरुषत्वमेव / यदुक्तम्-'अचिन्त्यप्रत्ययभावामूर्तसूक्ष्मज्ञकारणरूपादिमूर्तस्थूलविपरिवर्ततत्पुरुषविपरिवर्तमानं पृथिव्यादि' इति युक्त्योपपादितम् / तत्रैव पुनः संसारसिद्धयै युक्त्योपपादनाथ प्रस्तूयते / चैतन्यादात्मेत्यादि, यावद्विपरिवर्तानन्त्यवत् / चेतनभावश्चैतन्यम् ,तस्साच्चैतन्यादात्मा पृथिव्यादि सुषुप्तावस्थाया विपर्ययेण वृत्तस्तत ईषद्विशुद्धावस्था इत्यर्थः / चैतन्यस्य रागादिविपरिणामात् / रागादेवन्धकारणत्वात तदुपयुक्तः उपयोगस्वातन्त्र्येण / उपयोगो हि चेतना / तस्य स्वातत्र्यं कर्तृत्वात् / 'मिथ्यादर्शनाविरतिप्रमादकपाययोगा बन्धहेतवः' (तत्त्वार्थ० 8 / 1) इति वचनात् / रागाद्यात्मककषायविकल्पात्मकत्वान्मिथ्यादर्शनादीनाम् , तेन स्वातत्र्येण बद्ध्वात्मनाऽऽत्मानमस्वतत्रीकरोति तेनैव च स्वयं कृतेन बन्धेनास्वतत्रीक्रियते, मद्येनेव स्वयं पीतेन मद्यपः, स्वयं पूरितवेगया डोलयेव वा पुरुषो भ्रम्यते, कर्मडोलया कर्मबन्धेन रूपादिमत्त्वमनायनन्तश आपद्यते / एवमेतदुभयं सन्तत्याऽनाद्यनन्तं च 1 च ग। 2 प्रत्यग्राहित्वम् घ। 3 °यु क-घ। 4 प्रभावा क / प्रत्यभा ग।