________________ 156 नयचक्रम्। [विधिविधिनयेद्रव्यार्थतया। यथोक्तम्-'पुचि भंते ! कुक्कुडी पच्छा अंडए, पुदि अंडए पच्छा कुक्कुडी ? रोहा! जा सा कुक्कुडी सा कुतो? अंडगाओ, जे से अंडए से कुतो ? कुक्कुडीओ। एवं रोहा! पुञ्यिपि एते पच्छावि एते सासया भावा / अणाणुपुव्वी एसा रोहा' ! (भगश०१, उ०६, सू०५३) इति / तथा-'सव्वजीवाणं भंते ! एकमेकस्स मातत्ताए पितित्ताए भातित्ताए भञ्जत्ताए पुत्तत्ताए दुहितित्ताए गोयमा ! / असति अदुवा अणंतखुत्तो' इत्यादि / तच्च द्विविधं रूपादि सूक्ष्मं स्थूलं च, कर्मादि सूक्ष्मम् , आदिग्रहणादुच्छासनिःश्वासभाषामनस्त्वादि कार्मणतैजसाहारकशरीरादि च तदात्मत्वगत्या, स्थलं पृथिव्याद्यौदारिकवैक्रियशरीरात्मकत्वगत्या तदात्मत्वापत्त्या, एतत्प्रक्रिययैव प्रतिपादितमपि सुखग्रहणार्थ प्रतिज्ञायते / अनाद्यनन्तशः सूक्ष्मस्थूलशरीरादिरूपादिमत्त्वं प्रतिपद्यते चैतन्यमिति / कुतः? कार्यात्मत्वात् / कार्यात्मत्वं च तस्य सिद्धं रूपादिपृथिव्यादिभेदरूपेण विपरिवृत्तेः साधितत्वात् / इह त्वनाद्यनन्तशः सेति साध्यते / यो यः कार्यात्मा स सोऽनाद्यनन्तशो विपरिवर्तमानो दृश्यते / तद्यथा-मृद् घटेत्यादि, द्रव्यं मृद्भवति, मृद् घटो भवति, घटः कपालानि / ततः क्रमेण शकलशर्कराधूलिपांशुत्रुटिपरमाणवः / ततो रूपादयः / रूपादिभ्यः पुनरुत्क्रमेण परमाण्वादयो यावद्रव्यादित्वविपरिवर्तानन्त्यम्, आदिग्रहणाद्गुणकर्मसत्त्वादित्वेन विपरिवर्तवत् / एवं प्रकारस्य भवनस्य स्वजात्यपरित्यागरूपस्य देशकालभेदैकान्ताभ्युपगमेऽनन्तरवक्ष्यमाणदोषत्वात् / नान्यथैतदिति प्रतिपत्तव्यम् / अत्राह-नन्वेवमित्यादि, नन्विदमनादित्वात् कुक्कुट्यण्डकयोरिवानन्तत्वाच्च, कुत्सिता कुटिः कुक्कुटिरित्यर्थे कुक्कुटिशब्दस्य शरीरार्थव्याख्यानाच मुक्तस्यापि रूपाद्यर्थज्ञानपरिणामादविवेके चैतन्यरूपादिमत्त्वयोस्तुल्ये किमर्थ ज्ञानात्मकमित्युच्यते ? / किं वा कारणं रूपादिमदात्मकमिति नोच्यते सर्वम् ? / विशेषहेतुर्वा वाच्य इति, तद्दर्शयन्नाह परः-नन्वेवमनाद्यनन्तत्वे सतीति गतार्थम् / आचार्य आह-नैवं परिग्रहेऽपि कश्चिद्दोषः / किं कारणम् ? अस्यैवार्थस्य सिसाधयिषितत्वात् / चतुरवस्थात्मकत्वात् तस्य / तत एव रूपादिद्रव्येन्द्रियपृथिव्या 1 आगमोदयसमितिद्वारामुद्रितावृत्तौ त्वेवं पाठः-'पुब्धि भंते ! अंडए पच्छा कुक्कुडी, पुन्धि कुक्कडी पच्छा अंडए? रोहा! से गं अंडए कओ?, भयवं! कुक्कुडीओ। साणं कुकडी कओ? भंते ! अंडयाओ। एवामेव रोहा! से य अंडए सा य कुक्कडी, पुदिव पेते पच्छा पेते / दुवेते सासया भावा / अणाणुपुव्वी एसा रोहा!।' छाया-पूर्व भगवन् ! अण्डकं पश्चात् कुक्कुटी, पूर्व कुक्कुटी पश्चादण्डकम् ?, रोह! तद् अण्डकं / कुतः ?, भगवन् ! कुक्कुटीतः। सा कुक्कुटी कुतः ? भगवन् ! अण्डकात् / एवमेव रोह ! / तच्च अण्डकं सा च कुक्कुटी। पूर्वमप्येते पश्चादप्येते। द्वावेतौ शाश्वतौ भावौ / अनानुपूर्वी एषा रोह!। 2 सर्वजीवानां भगवन् ! मातृत्वेन पितृत्वेन भ्रातृत्वेन भार्यात्वेन पुत्रत्वेन- दुहितृत्वेन, गौतम ! आसन्नेवं अनन्तकृत्वः। 3 वीक-ख। 4 सत्ता घ।