________________ पुरुषवादः न्यायागमानुसारिण्यलङ्कृतम् / 157 दिरूपः स एवोच्यते, तथा च सृष्टेः पूर्वमुक्तत्वात् / आह-चेतनाचेतनयोरैक्यापादनप्रस्तुतेः पुरुषस्तन्मयं चेदम् / स एव स्वतत्रो भवतीति च विशेषज्ञग्रहणं खतऋग्रहणं च किमर्थमिति ? / आचार्य आह-तथा हीत्यादि भावयिष्यते, भवतीति भाव इत्युक्तम् , भावस्वरूपदर्शनार्थं तु यो भवति स वाच्य इति ग्रहणं तदपि तथा हीत्यादिना च / एवं च कृत्वा यत् प्रागुक्तं 'देशकालभेदभवनाभावदोषे वक्ष्यमाण' इति तत्परिहारेण ज्ञस्यैव भवनस्योपपत्तेस्तदन्वयाच सर्वदेशकालात्मकस्य भिदा देशकालाभ्यां भवनं सिद्ध्यति / तथा हि-वस्तु भवतीति शक्यं वक्तुम् , तद्भिन्नेत्यादि, देशकालभिन्नपृथिव्यादिभेदभूतपदार्थपरिग्रहे तु, अन्यथा तु घटभवनं यदेतत् प्रत्यक्षसंप्रसिद्धं तदपि न सिद्ध्यति / तत् कथम् ? देशभेदप्रत्ययेन तावदित्यादि / ग्रीवापृष्ठकुक्षिबुध्नौष्वा(!)दीनां देशभिन्नानां कपालशकलादीनां च यावत् परमाणुशो रूपादिशो निरुपाख्यत्वशश्च भेदाभावे घटभवनं न सिद्ध्यतीति वर्तते / एवं न श्वेतिकापीतिकायेकदेशभावे मृत् अश्मादिभेदान्न पृथिवी, पृथिव्यपूतेजोवाय्वादिभेदान्न द्रव्यम् / गुणकर्मभेदाद्वेति / तदेव हि द्रव्यं रूपगमनादिगुणकर्मभेदार यावनिरुपाख्यत्वभेदात् समुदायाभावाच्च सम्बन्धाद्रव्यं द्रव्यादिभेदात् / द्रव्यगुणकर्मनानात्वान्नेकं सत्त्वम् / एवं तावद्देशभेदे घटभवनं न स्यात् द्रव्यादीनामनुपपत्तेः, कालभेदाप्रत्ययेनापि प्रतिक्षणमव्यपदेश्यभवनात् कतरद् घटभवनम् ? क्षणे क्षणेऽत्यन्तमसम्बद्धायःशलाकाकल्परूपाद्यात्मकत्वानुपपत्तेः। किं कारणम् ? मृद्भूतत्रीह्याद्यम्ब्वादि कालभिन्नभावभेदे मृदभावात् / अस्मन्मतेनामृद्भूतो व्रीह्यादिरम्ब्वादिश्चैक एव / कालान्तरावस्थाने सति तत्परिणामोपपत्तेः। त्वन्मतेन तु कालभिन्नभावभेदे क्षणे नवनवार्थासम्बन्धाद्भावभेदे व्रीहिरेव विनष्टो मृन्न भवति / न चोदकादि विनष्टं मृद्भवतीति निर्बीजत्वान्मृदभावः / मृदभावाच्च को घटः ? भवनं वा किं स्यात् ? / अस्माकं तु सामान्यान्वयाद्रीह्यादय उदकादय एव वा मृद्भवति घटो भवतीत्यादि युज्यते, परतोऽपि कपालादिपांशुव्रीह्यादिभूतेः। घटभवनात् परतोऽपि घट एव कपालादिर्भवति / कपालादेरपि परतो यावच्छर्कराभवनात् पांश्वादेरपि परतो व्रीह्यादेर्भवनात् / तस्माद् घटादिसर्वात्मकमेव भवति / न चेदेतदिष्यते एवं प्रकारकं भवनं, तत एवं घटादिसर्वात्मकस्यैकस्य देशकालव्यापिनः सत्त्वस्याभावात् / त्वन्मतेनैव प्रत्येकत्वस्य चेष्टस्य त्वया इतरेतरासत्त्वात्मकत्वात् कुतो भवनम् ?,भवितुर्घटादेर्घटः पटात्मना नास्ति,पटोऽपि घटात्मनेति देशतः। कालतश्च प्राक् पश्चाद्वा स एवेति न घटोऽस्ति / न घट इति प्रत्येकं भिन्नत्वे भावानामभावात् को घटः१ किंवा भवनम् ? यथानुरूपादीत्यादि, यावदस्मदुपवर्णनवदेवाभिहितं भवति, यैश्च वर्ण्यते 'विज्ञानमात्रत्वं देशभेदाद् घटो भिद्यमानो 1 विशेष्य ज्ञ क-ख / 2 विद्यादे ग-घ / विद्या क-ख /