________________ 158 नयचक्रम् / [विधिविधिनयेरूपादिभेदेन भिद्यते यावन्निरुपाख्यशः, कालभेदेन च भिद्यमानः परमनिरुद्धक्षणोत्पत्तिविनाशनिरुपाख्यशो भिद्यते' इति, तैः सर्वभेदपर्यन्तं भेदं विधायापि विज्ञानमात्रमेव नान्यत् किञ्चिदिति व्यवस्थाप्यते / यथा तु तद्व्यवस्थाप्यते तथामदुक्तवदुपवर्णितमभिन्नमेकं विज्ञानमित्युक्तं भवति / ततश्च रूपरसादिघटपटादि विश्वभेदात्मकत्वात् तस्य रूपादेः परस्परविविक्तत्वे तु तद्विज्ञानान्वयाभावाद्रूपरसादिभेदपरिकल्पनाभावस्तदंशकल्पनाभावो निरुपाख्यत्वकल्पनाभाव इति विज्ञानमात्रता न भवति / अथ कश्चिद् ब्रूयात् तदपि विज्ञानं सत् सर्वभावशून्यत्वादित्येतच्चायुक्तम् / ज्ञानस्यापि त्वभावाभ्युपगमे रूपाद्यपलापबीजनिरूपणादिनिमूलत्वात् प्रत्यक्षादिविरोधाः। रूपादयो न सन्तीति यदपलापबीजं निरूपणं तदपि नास्तीति निरूपादिप्रतिषेधो न सिद्ध्यति, प्रत्यक्षतश्च स्वानुभवेन रूपस्य निरूपणमुपलभ्यते प्रतिस्वम्। आदिग्रहणादास्वादनघ्राणस्पर्शनश्रवणानुभवा उपलभ्यन्तेऽतः प्रत्यक्षविरोधः। तदनुसरणदर्शनादनुमानविरोधः आदिग्रहणात् , अनुस्मरणं हि स्वयमनुभूतस्थार्थस्य नाननुभूतस्य / तस्मादवश्यमात्मा ज्ञानस्वभाव एकः सर्वभावव्यापी विपरिवर्तमानोऽवस्थितः कारणमिति सिद्धम् , अत एवोक्तवदित्यादि / एतस्मादेवात्मव्या• प्तिविपरिवृत्तिव्यवस्थितत्वाद्धेतोक्तेन तुल्यमुक्तवत् / रूपादीनां तच्यात् / रूपेणात्मकत्वात् ज्ञानस्वभावात्मावस्थाविशेषमात्रत्वात् / सर्वत्र सर्वभावेषु एप विशेषस्तस्यैव कारणपदार्थस्योपकारविशेषेभ्योऽपरो द्रष्टव्यः / सन्निपत्योपकारिणी बुद्धिरात्मनः साक्षादव्यवहिता भावानां स्वपरिवर्तविशेषाणामुपभोगे, भोक्ता तु स्वयमेव स्वपरयोरारादिन्द्रियाणि करणत्वाद् दूरात् प्रकाशादयोऽनुग्राहकाः / इन्द्रियाणां दवीयांसस्तु रूपादयो,दविष्ठा घटादयः। औषधा व्यञ्जनादीनि इन्द्रियाणां पाटवजननादुपकार्युपकारित्वेन तदुपोदलकराश्थाहाराः सर्वभावगतासु ज्ञानवृत्तिष्विति / अत आहसर्वत्र सन्निपत्यारादूरादुपकारित्वेभ्यो हेतुभ्य आत्मबुद्धीन्द्रियप्रकाशरूपघटौषधाहारादिषु ज्ञानवृत्तिर्भवतीति / अत्राह-चेति ज्ञापकमेतस्मिन्नर्थे, पूर्वोक्तमेव जैनैर्वक्ष्यमाणज्ञापकार्थमेकोऽहमनेकोऽप्यहमित्यादिकमतोऽपि लौकिकस्तदनुसारेणाह / न स्वमहिम्नेति / पुरुष एवेदमित्यादि / एवेत्यवधारणे / भवितुरन्यस्याभावादुक्तवत् तस्यैव च भवनात् / इदमिति दृश्यस्पृश्यादीन्द्रियगोचरं लिङ्गगम्यं वा निर्दिशति सर्वमित्यशेषम् / तस्यैव सामान्यविशेषभेदप्रभेदानन्त्येऽपि सङ्ग्रहीतं बुद्ध्या, इदं च देशतः प्रदर्शनमिदं सर्वमिति / कालतस्तु भूतं भाव्यमिति अतीतानागतवर्तमानानां प्रदर्शनम् / भूतशब्दस्य वर्तमानातीतवाचित्वात् / उत पश्य प्रेक्षस्वेत्यर्थः / अमृतत्वस्याक्षयत्वस्य ईशानः प्रभविता, सह्यक्षयोऽजरोऽमरः पुरुषः, 1 पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् / उतामृतत्वस्येशानो यदन्नैनाति॒रोहति // ३००पु०सू०