________________ पुरुषवादः] न्यायागमानुसारिण्यलङ्कृतम् / 159 ज्ञानस्याविनाशित्वात् / सोऽक्षयत्वमनुभवतीत्यर्थः / यथोक्तं-'अक्खरस्स अणंतमो भागो णिचुग्घाडिओ सव्वजीवाणं'इति ( नन्दीसूत्रे पृ० 195-2) / तयाख्याननिदर्शनं च-'तंपि जदि आवरिजिज तेण जीवो अजीवयं पावे // ( नन्दीसूत्रे पृ० 195-2) / 'सुडेंवि मेहसमुदए होइ पभा चंदसूराणं इति ( नन्दीसूत्रे पृ० 195-2) / यदिति यसात् कारणात् / अनेनातिरोहति / अद्यते भुज्यतेऽश्यत इत्यन्नम् , पुद्गलद्रव्यं तेनैवात्मनानाद्यनन्तशोऽपि विपरिवर्तितत्वात् / तेनान्नेनासावतिरोहति वर्धते उपचीयते / तत्स्वारूप्याद्वालक इव नवनीताहारेण, तेन ज्ञानक्रिययोपष्टम्भोपलम्भात् करणकायविवृद्धेश्च / यथोक्तम्'अन्नं वै प्राणाः', 'अन्नमयो ह्ययं पुरुषः।' पुरि शयनात् पुरुषः / नाज्ञस्यैतत् सर्व घटते, अतिरोहति भृशं रोहतीति / किं चान्यत्-अत एवेत्यादि / एतसादेव कारणात सर्वत्वसिद्धिः। तस्य तत्त्वज्ञानस्वरूपस्य / तया च पुनः सर्वत्वसम्प्रसिद्ध्या आत्माद्याः ख्याताः। सततमतति गच्छति जानीते परिणमतीति चात्मा। सतो भाव: सत्त्वं, स एव सन् भवति चेत्यर्थः / भूतस्तथा सदा भवतीति वा / पुरि शयनात् पुरुषः, शरीरे जगति वा स्वविजृम्भितविकल्पात्मके पूरणाद्गलनाच पुद्गलः, पुमांसं गिलतीति वा पुद्गलः / जीवशरीरतया विभज्य भोक्तृभोज्यभावाद्वृद्धिहानिभ्यामुत्पत्तिविनाशाभ्यां पूरणगलनाभ्यामित्यर्थः। जायते तैस्तैीवैरिति जन्तुः,पञ्चेन्द्रियमनोवाकायबलायुरुच्छ्वासनिःश्वासाख्यदशप्राणधारणात् प्राणी जीव इति चोच्यते, इत्येवमाद्यभिख्याः सर्वत्वे सति घटन्ते, तेन तेन धर्मेण व्यपदेशाविरोधात् / मृदनुत्तीर्णघटपीठरादिवत् / यथा मृदोऽनुत्तीर्णा घटपीठरादयो भवन्ति सन्निवर्तन्त इत्यादिभ्यो भ्वस्त्याद्यर्थेभ्यो नोत्तरन्ति भवनानुत्तरात् सर्वधातूनां भवत्याद्यर्थत्वात् / एवं ज्ञानस्वरूपः कर्ता भवत्यस्ति वर्तते ज्ञानस्वरूपभवनानुत्तरात् / अत आह-'वस्त्यर्थादिभ्यः / सर्वस्यानुत्तरादस्तिभवतिविद्यतेपद्यतिवर्ततयः सन्निपातषष्ठाः सत्तार्थाः स्वादयश्च सर्वधातवस्तदर्थ नातिवर्तन्त इति / यावदेव किश्चिदुत्पद्यते विनश्यति व्यवस्थितं वा तस्य सर्वस्यासावात्मा स्वरूपं तत्त्वमित्यर्थः / इति पर्यायैः स्वरूपोपनयनम् / - स्यान्मतम्-स्वात्मनि वृत्तिविरोधात् कथमात्मानात्मानं सृजत्युपसंहरति च बध्यते मुच्यते च ? न ह्यङ्गुल्यग्रं स्पृशति, नासिरात्मानं छिनत्ति इत्येतच्चायुक्तम् , शक्तिभेदात् कारकभेदोपपत्तेः, तन्तुवायकोशकारककीटवच्च। तदात्मका एवैते संहारविसर्गबन्धमोक्षाः / यथा तन्तुवायकीटः स्वशरीरजयैव लालया तन्तुं प्रसारयत्युपसंहरति च न चान्यतः कुतश्चित् तथात्मन एव संहारविसर्गौ।। 1 अक्षरस्यानान्तमो भागो नित्योद्घाटितः सर्वजीवानाम् / 2 सोऽपि यदि आवियते तेन जीवोऽजीवत्वं प्राप्नुयात् / 3 सुष्वपि मेघसमुदये भवति प्रभा चन्द्रसूर्ययोः। 4 अद्यतेऽत्ति च भूतानि तस्मादन्नं तदुच्यत इति / तैत्तिरीयो० व.२ अ.२