________________ नयचक्रम् / [ हवनक्रियातुल्यं, तुल्ये वा सत्त्वे विशेषो वक्तव्यः। अस्माद्विशेषहेतोः कार्यसत्वे सत्यपि प्रादुर्भवति / न तु स्वमंतिनोच्यते, चेद्विशेषहेतुरविशेषोऽनयोरविशेषे च वैलक्षण्यानुपपत्तिः खपुष्पखरविषाणयोरिवासतोः। दृष्टं च वैलक्षण्यमायत्यां प्रादुर्भवत्यां तत्त्वविशेषे तयोर्नोपपद्यते तस्माद्धेतोरविशेषवैलक्षण्यानुपपत्तेर्घटघटखात्मवत् / यथा घट एव घटस्वात्मेति तयोर्न वैलक्षण्यमविशिष्टत्वादेवमविशेषः स्यात् , न तु भवति, दृष्टत्वादुक्तत्वाच्चाविर्भावयोस्तस्मात् तयोर्यथासंख्यं सत्त्वमसत्त्वं चावश्यमेषितव्यम् / इतर आह-नैवास्त्यविशेषोऽसतोऽपि यसाचतुर्विधोऽसन्निष्यते प्राक्प्रध्वंसेतरात्यन्ताभावाख्यः / घटस्य मृत्पिण्डादिकपालादिघटादिखरविषाणादिवदिति / अत्रोच्यते-विशेषोन्नयनेऽपि तु विशेषस्य सदाश्रयत्वात् सत्त्वं घटवदिति / अपिशब्दो नाभ्युपगमं दर्शयति / नैवाभासस्य खरविषाणवन्ध्यासुतादेः परस्परतो विशेषोऽस्त्यवस्तुत्वात् त्वन्मतेनैव / असन्मतेन तु वस्तुत्वमभावस्थापि कस्यचित् प्रमेयत्वसामान्यविशेषत्वादिहेतुभ्यस्त्वदभ्युपगतेभ्यः प्रमाणवत् / अतस्त्वन्मतेनैवाभावस्य भावाद्विशेषः / परमार्थतो नास्ति / अभ्युपेत्यापि ब्रूमो विशेषोन्नयनेऽपि तु येन केनचित् प्रकारेण सदाश्रयाभावस्त्वत्परिकल्पितश्चतुर्विधोऽपि विशेषत्वाद्रूपादिवद् घटवत् / ततश्च विशेषस्य सदाश्रयत्वात् सत्त्वं घटवत् / यथा घटः सन्तं पृथिव्याद्यर्थमाश्रित्य वर्तमानः सन्नेव स्वयमेव वात्मानमाश्रित्य वृत्तेः सन्नव / विशेषोऽपि सदाश्रयत्वात् / सन्निति / इतिशब्दो हेतुदृष्टान्तदाान्तिकोपसंहारे / इत्थं भावाभावयोः सामान्यमेव न विशेष इति / एवं तावत् कार्यखपुष्पयोरुभयोरसत्त्वमेवेति साम्यमापादितम् / द्वितीयविकल्पो विचार्यते-अथैवं तत्साम्यमित्यादि / अथैतदापादितं सामान्यमनिच्छितकार्यसत्त्वपरिहारेणोभयासत्त्वाभ्युपगमादायातमिदमन्यतरासत्त्वं कार्यसत्वपरिहारेणाभ्युपगम्यते / प्रतिपक्षवादादन्यत् पूर्वोक्तद्वयान्यतरविशिष्टम् / किं तत् ? कार्यमेवासदिति / अवश्यं द्वयोरन्यतराभ्युपगमेऽवधारणमापद्यते / तच्चावधारणं 'यत एवकारस्ततोऽन्यत्रावधारण मिति परिभाषितत्वाच्छास्त्रेषु, लोके च दृष्टत्वादवधारणफलत्वाच्च वाक्यस्यैतदुपपद्यते कार्यसमीप एवकार इति / कार्यमेवासदिति कार्यशब्दसमीपे एवकारप्रयोगादितिशब्दस्य हेत्वर्थत्वादन्यत्र प्रतियोगिनि असत्त्वे नियमः। असच्छब्दवाच्येऽर्थे खपुष्पादौ नियमस्तत्रैवकाराभावात् / न कार्यशब्दाथै, यथा वृक्षचूत इत्यत्र चूतो नियमावृक्षो वृक्षस्तु चूतोऽन्यो वा स्यादित्यनियमः। तथेहापि कार्यमेवासत् न तु खपुष्पाद्यकार्यमसत् / किं तर्हि ? सत् , तच्च सदेव कार्यमिति नियम्यते / यदि सपि कार्य सादस्तु, को दोष इति ? तद्दर्शयति-असत्त्वं कार्यासरवे ग / 2 खपुष्पमिति नोग। 3 °मवेदं ग / सन्ने ख। 4 तु ख / 5 सदत्य ग।