________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / क्षणः, असतश्च खपुष्पादेः संश्च दृष्टः। तथा खपुष्पं घटवत् सदसद्विलक्षणत्वान्नासत् सदेवेत्यर्थः। 'द्विः प्रतिषेधः प्रकृतिं गमयति' इति कृत्वा इतर उदुम्बरपुष्पवद् यदसत् तदसद्विलक्षणं यथोदुम्बरपुष्पं त्वन्मतेनात्रापि वैधर्म्यदृष्टान्तः / खपुष्पखरविषाणोदुम्बरपुष्पादीनामसत्चाविशेषादनिष्ठापादनसाम्यात् साध्यान्तःपाति तस्माद्वैधर्म्यदृष्टान्तेन नार्थः / अस्तु, तदसद्विलक्षणत्वमितरेतराभावापेक्षत्वात् कथमसद्विलक्षणं खपुष्पमिति चेत् / आयत्यां प्रादुर्भवता कार्येणासता वैलक्षण्यस्य त्वयैवाभ्युपगतत्वात् त्वन्मतनिवारणार्थत्वादस्य प्रयासस्य, नासाकं दोष इति / अथैवमपीत्यादि / अथ ते प्रादुर्भावाप्रादुर्भाववैलक्षण्ये सत्यपि कार्यखपुष्पयोरसदेव खपुष्पमित्ययं निश्चयोऽसवैलक्षण्याद् घटवदित्यस्सा यायान्निवय॑मानोऽपि न निवर्तते, अप्रादुर्भावात्मकं च तत् खपुष्पमित्येतच्च वैलक्षण्यमित्यत एव 'प्रादुः प्राकाश्ये जन्मनि च' तथाविः-प्रादुर्भवति प्रकाशं भवति गृह्यते ज्ञायते उद्यते जायत इति वा, तेष्वाविर्भवतीति एवं चाप्रादुर्भावात्मकस्य खपुष्पस्यासत्त्वेऽर्थादापनं, न तर्हि प्रादुर्भावात्मकत्वात् कार्यमसत् सदेवेत्यर्थः / को दृष्टान्तः ? निवृत्तघटवत् , यथा निवृत्तो घटः प्रादुर्भावात्मकत्वात् प्रकाशात्मकत्वात् सन्नेव तथा कार्यमपि सत् / अस्याश्चार्थापत्तेरेकान्तिकत्वान्न जात्युत्तरता यथा गेहे देवदत्तस्याभावे स्थितिमतो हि भावानुमानमर्थापनमेकान्तिकत्वान्न जातिवादः / अस्माकं त्वत्राभिप्रायः / सदेव कदाचिदुपलभ्यते जायते वा नात्यन्तासदिति / दर्शनादर्शने च सद्विषये इत्येतदुत्तरत्र दर्शयिष्यामो विचारस्यास्य तत्फलत्वात् / अथैवमपि त्वया कार्यस्य सत्त्वं नेष्यते ततः असत्त्वे कार्यस्यायत्यां न प्रादुर्भवेत् कार्यमसत्त्वात् खपुष्पवत्, प्रादुर्भवति तु तसात् सत् / शेषं पूर्ववदेव / अतीतग्रन्थमतिदिशति-विपयेयेणेति / अर्थतः शब्दतस्तद् द्वयोविपर्ययेण योज्यः। तद् यथा-अथ न खपुष्पाप्रादुर्भाववत् कार्याप्रादुर्भावोऽसच्च कार्यमिति निश्चितं, न तयसत् कार्य सदेव तत् / असद्विलक्षणत्वाद् घटवदितर उदुम्बरपुष्पवत् / ननु घटासत्वं पटासत्त्वविलक्षणं न सतो वैलक्षण्यात् , अथैवमपि वैलक्षण्ये कार्यासत्त्व विनिश्चयो न निवर्तते, प्रादुर्भावात्मकं च तत्र / तर्हि प्रादुर्भावात्मकत्वादसत् कार्य निवृत्तघटवत् , असत्त्वादायत्यां न प्रादुर्भवेदसत्त्वात् खपुष्पवत् इति / तदुपसंहारार्थमाह-अतः कार्य सत्। आविर्भावात्मकत्वात् निवृत्तघटवत् / वैधयेणाकाशघटवत् / आकाशमेवाकाशस्थाकाशे वा घटः आकाशघटा, स त्वनाविर्भावात्मकत्वान्नास्ति न तथा कार्यमनाविर्भावात्मकं तस्मात् तत् सदिति / असच्च खपुष्पमनाविर्भावात्मकत्वात् घटवत् / वैध]ण निवृत्तघटवदिति / तयोः सदसतोः कार्यखपुष्पयोढ़लक्षण्यं दर्शयति-यदि भवन्मतेन कार्यखपुष्पयोरसत्त्वमेव