________________ नयचक्रम् / 134 [वनक्रियावावेव सम्भवेताम् / नेतरौ / ततश्च तयोरुभयासत्त्वकार्यासत्त्वविकल्पयोस्तद् , यदि तावदुभयासत्त्वं ततोऽसत्त्वाविशेषादेवाविशेषः खपुष्पकार्ययोरसत्त्वाविशेषादेव विशेषे कार्याविर्भाववत् खपुष्पाविर्भावोऽप्यायत्यां स्यात् / एष्यति कालान्तरेऽसाद्वर्तमानात् क्षणात् अन्यस्मिन् क्षणे भवेत् / दृष्टान्तः असत्कार्यवत् , बीजादकुरवत् / न चैतद् दृष्टमिष्टं वा / खपुष्पप्रादुर्भाव इति / अथैतस्मादनिष्टापत्तिदोषाद् दृष्टेष्टविरोधादपसर्पन ब्रूयास्त्वं न कार्यप्रादुर्भाववत् खपुष्पप्रादुर्भाव इष्यते / असत्त्वकार्यमिति निश्चितम् / ततः को दोषः ? इति चेदुच्यते / तद्वैलक्षण्यान्न तीसत् खपुष्पम् , असत्कार्यवेलक्षण्यानेदानीमसत् खपुष्पं किं तु सदिति प्राप्तमसत्कार्यवैलक्षण्यं खपुष्पस्यायत्यामप्रादुर्भावस्तस्मादसत् कार्यवैलक्षण्यादायत्यामप्रादुभोवान्न त सत् खपुष्पम् , ? किं तर्हि ? सत् / को हेतुः? असद्विलक्षणत्वात् / असता कार्यण सह विलक्षणत्वात् / दृष्टान्तो घटवत् / यथा घटोऽसद्विलक्षणत्वात् सन्नेवं खरविषाणमप्यायत्यां प्रादुर्भवता कार्येण वैलक्षण्यात् सत् प्रसक्तमितर उदुम्बरपुष्पवत्। इतरे इति वैधर्म्यदृष्टान्तः / यदसत् तदसद्विलक्षणं न भवति यथोदुम्बरकुसुममिति / परस्यानिष्टापादनार्थत्वादसद्वैधय खपुष्पस्येति / ननु घटासत्त्वं पुष्पसत्त्वविलक्षणम् , स्यान्मतम्-घटस्यासत्त्वं पटात्मना पटासत्त्वं घटात्मनेति तयोरितरेतराभावलक्षणासत्त्वं वैलक्षण्यं च परस्परतो, दृष्टान्तौ च घटपटौ सन्तौ, तस्मादसवैलक्षण्यस्य सत्यपि दर्शनादेवैकान्तिकतेति चेत् / उच्यते-न, सतो वैलक्षण्यात् / नानैकान्तिकतास्य हेतोः सतो वैलक्षण्यात् / सत एव वैलक्षण्यं तद्धीतरेतराभावात्मकं वैलक्षण्यं सत एव नासतः / तस्मादसतो वैलक्षण्यं न भवति, किं तर्हि ? सद्वैलक्षण्यमपि तत् सत एतदपेक्षया तद्रूपेणासत्त्वात् / अयं तु कार्यस्यायत्यां प्रादुर्भावोऽसताख्यपुष्पेणात्यन्तविलक्षणोऽप्रादुर्भावश्च खपुष्पस्य कार्येण सतेति नास्ति सतो वैलक्षण्यं सता तद्विशेषधर्मत्वात् / रूपादिविशेषधर्मवैलक्षण्यवत् / अथवा सतोऽवैलक्षण्यात्, सतः अवैलक्षण्यात् / सतस्तु घटादेः पटादिना सह वैलक्षण्यं नास्त्येव सत्त्वान्वयाविशेषात् , देशकालाकारादिमात्रविशेषस्याविशेषत्वादगुल्यादिविशिष्टकान्ताविशेषवत् / अथवा न तासत् खपुष्पं, कस्माद्धेतोः? सदसद्विलक्षणत्वात् / सतासता च विलक्षणत्वात् / सच्च द्विविधम् / तुल्यजातीयं घटस्य घट एवातुल्यजातीयं पटादि असच्च, सच्च कार्यमायत्यां भावादकुरादि खपुष्पमत्यन्ताप्रादुर्भावात् कार्येणासता लक्षणसता च घटपटादिना त्वन्मतेनेतरेतराभाववैलक्षण्येन तुल्यजातीयेन च भावानां परस्परवैलक्षण्यवैद् दृष्टान्तो घटवदिति, यथा पटस्तुल्यजातीयेभ्यो घटान्तरेभ्यो तुल्यजातीयेभ्यश्च पटादिभ्यश्च सद्भयो विल १र्भवत् क-ख। 2. काङ्गा ग। 3 °ण्यं न ग। 4 यं च ग /