________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 133 प्रत्यपेक्षाप्रामाण्ययोनिविषयत्वात् / ज्ञानं हि प्रमाणमप्रमाणं वेति विचार्यते प्रत्यपेक्षते च / तत्र प्रामाण्यस्य मुख्यत्वात् / न ह्यत्र तदुपादिष्टप्रामाण्यवत् प्रामाण्यमङ्गीक्रियते तस्मात् प्रत्यपेक्षायाः प्रामाण्यस्य च ज्ञानविषयत्वात् / त्वन्मतादेव वेदस्य ज्ञानाभिमतत्वान्न विचारोन प्रमाणभावो वास्त्यज्ञानत्वाद्वेदस्य / त्वया हि प्रागेवोत्पततोक्तं 'न हि किञ्चित् ज्ञानं निश्चितं विशुद्धं चास्ति / सर्वस्य संशयाद्यज्ञानानुधिद्धत्वात्' इति / तदर्शयन्नाह-त्वन्मतात्तदोनज्ञानवन्न इति / न यथा ज्ञानकार्यत्वात् ज्ञानात्मप्रयुक्तशब्दचैतन्यमपि कार्ये कारणोपचारादत्र कार्यप्रमाणात् तत्ववदिति वा। ततः किमिति चेत् / अप्रमाणनियमोऽनुपदेशकश्च वेदः। अचेतनत्वादाकाशवत् / यथाकाशमचेतनत्वादप्रमाणं कूटस्थनित्यत्वाच न ज्ञानवद्वचनमेवं वेदोऽपीति प्रामाण्योपदेशाभावः। यदपि च प्रसह्येत्यादि, प्रसह्य बलात्कारेण परं कश्चित् पुरुषमवगणयतैकवीरमन्येनाक्रम्य परिभूयास्मन्मतं यदपि चाग्निहोत्रं जुहुयादित्यत्र कारणेषु घृतादिष्वितिकर्तव्यतात्मसु स्वर्गादिफलस्य खपुष्पवदसत्त्वमुच्यते / एवंविधेष्विति सर्वेतिकर्तव्यतानामादिमध्यावसानेषु तत्पुनरसत्त्वमेकान्तेन न कथश्चित् कार्यादिसत्त्वमपीत्येतत् पक्षनिरपेक्षं सर्वथा नास्त्येवेति त्वयेष्टम् / तदपि चान्याग्यमेव / यतो यदेतदसत्त्वं नाम त्वया कचिन्मन्यते, नामेति मिथ्याकल्पितनाममात्रमेव तत् / यत् त्वया क्वचित् सत्त्वनिरपेक्षमसदिति चिन्त्यते कथं पुनरन्याय्यं तदसत्त्वमिति चेदुच्यते-न्यायेन बाध्यत्वात् / कतमो न्यायः? इति चेदेवं तर्हि क्रमः / ततोऽन्यत् कार्यमसतोऽन्यदित्यर्थः / कुतस्तत् ? समर्थविकल्पत्वात् / असङ्गतार्थोऽसमर्थोऽसम्बद्धो विकल्पतः। तेनासता सहासम्बद्धो विकल्पोऽस्येतितदसमर्थविकल्पं कार्य तस्य कार्यस्यासमर्थविकल्पत्वात् / ततोऽन्यत्वम् , किमिव ? घटपटवत् / यथा घटविकल्पाः पृथुबुनार्धग्रीवादयः। मृदुचतुरस्रादिभिः पदविकल्पैरसङ्गताः पटविकल्पाश्च तैरित्यसङ्गतौ घटपटौ परस्परतः / एवमसद्विकल्पैरसङ्गतं कार्य तस्मात् ततोऽन्यदिति / स्थान्मतम्-असद्विकल्पासङ्गतत्वं कार्यस्यासिद्धं तत्र प्रसिद्धमेव / यसाद्विकल्पासामर्थ्य वा सदसत्कार्ययोरसतः कार्यस्य च सिद्धमेवेति गृहाण विकल्पचतुष्टये द्वयोरेव सम्भवात् / असत् खपुष्पं कार्यमङ्कुरादि तयोर्विकल्पाश्चत्वारः / १खपुष्पमसत् कार्यमप्यसत् / २खपुष्पं सत् कार्यमसत् / ३खपुष्पमसत् कार्य सत् / ४खपुष्पं सत्कार्यमपि सत् / इत्येषु चतुर्यु विकल्पेषु कार्यखपुष्पयोरुभयोरसत्त्वं कार्यासत्त्वमेवेत्येतद्विकल्पद्वयं स्यात् सम्भवेत् , किं कारणम् ? उभयसत्त्वकार्यसत्त्वयोः प्रतिपक्षोऽभ्युपगम एव सत्कार्यवादः प्रतिपक्षोऽसत्कार्यवादस्य / इतिशब्दो हेत्वर्थे / इत्यमाद्धेतोर्वादाभावः / तस्माद्वादाभावादुमयाभावः कार्याभावविकल्पाभा 1 इत्यतौ ग / इत्येतो क-ख। 2 सत्कार्ययोः क-ग।