________________ 132 नयचक्रम् / [हवनक्रिया"प्रभूतकृमिमद्यासृङ्मेदोमांसकफो गुडः। . चक्षुस्तेजोमयं तस्य विशेषाच्छ्ष्म णो भयम्" // इति / . किं चान्यत्-इदं वाग्निहोत्रं जुहुयाद्यदग्नये च प्रजापतये च सायं जुहोति / घृतेन जुहुयात् / सूर्येण जुहोति तेन ह्यन्नं क्रियत इत्येवमादिविध्यनुवादार्थवादवाक्यगते जुहोतिः श्रूयमाण उपस्थानादीतिकर्तव्यतानतिरिक्तसेवनक्रियानामधेयमात्रार्थत्ववत् प्राप्तिविहितेतिकर्तव्यतानतिरिक्तहवनक्रियानाममात्रार्थो विप्रकीर्णावयवकलापाकारा क्रियैववास्यार्थी सिद्धरूपो न सिद्धरूपो यथा उपघटादि, तन्मात्रत्वात्तु तस्याः क्रियायाः प्रकरणानुबन्धनात् प्रकरणेनानुबन्धयन् वक्ता ब्रूते श्रोता च प्रतिपद्यते / क्रियामात्रमवश्यमनेन शब्देन कर्तव्यमित्येतावच्चोद्यत इति / तस्मात् क्रियामात्रत्वात् प्रकरणानुबन्धनात् हित्वा त्यक्त्वा जुहोतिप्रयोगबाहुल्यं सर्व जुहोतिप्रयोगात् / क्रियामात्रे प्रतिपाद्ये नान्तरीयकत्वात् कृप्रकृतिलिकता च दर्शयितव्येति, तत्प्रतिपादनार्थमभिमतवाक्यार्थतास्य स्यात् एवं कल्प्यमाने / तन्निदर्शयति-यदग्नये च प्रजापतये च सायं जुहोति तद् घृतादिना स्वर्गकामः कुर्यादिति / एतावता तदर्थस्य सुगमत्वात् / जुहोतिप्रयोगबाहुल्यमप्रत्ययरटितमेव पुनरन्यत्रान्यत्र जुहुयात् जुहोतीत्यादि / किं चान्यत्-त्वद्वचनात्त्वप्रमाणनियमागमोऽनुपदेशकश्च विवेक्तुरपीति सम्भाव्येत / योऽप्यज्ञप्रयुक्तशब्दार्थोन्नयनसमर्थो विवेत्ता पुरुषः पदवाक्यप्रमाणज्ञस्तं प्रत्यप्ययं वाक्यप्रयोगोऽप्रमाणनियमागमोऽनुपदेशकश्च / अप्रमाणनियमागमः प्रत्यक्षानुमानगम्यार्थासंवादादनुपदेशकस्त्वगमकत्वात् तत् पुनः सम्भावयामि / भवेदेवं, मा मंस्थाः / निष्ठुरमप्रमाणनियमागमोऽनुपदेशकश्चेत्यवधायैवोच्यत इति / कुतः? / अप्रत्यवेक्षितार्थत्वात् / पौर्वापर्यायोगाप्रतिसम्बद्धार्थत्वात् घटितानुमितिविध्वंसनात् अप्रत्यवेक्षिता जुहोतिबाहुल्यप्रयोगनिर्विषयत्वादिभिः पूर्वापरसम्बन्धरहितता पृथगाभिमतानां विध्यादिशेषाभावात् / घटितविध्वंसनमितिकर्तव्यतैव कर्तव्यतेति घटितस्यादिवाक्यगतजुहोत्यनुवादाभ्युपगमाद् घटितानुमितिविध्वंसनमित्येतेभ्यो हेतुभ्यः अप्रमाणनियमागमोऽनुपदेशकश्च वाक्यप्रयोगः / दृष्टान्त उन्मत्तप्रलापवत् / यद्वाक्यमुन्मत्तादिप्रलपितम् / पुरुषोच्चारितशब्दसामान्यात् / सद्वाक्यवदतोऽसमानमप्रमाणनियममगमकं च / यथा "शङ्खः कदल्यां कदली च भेयां तस्यां च भेयाँ सुमहद्विमानम् / तच्छङ्खभेरीकदलीविमाना उन्मत्तगङ्गाप्रतिबन्धभूताः // 1 // " इति / / तथेदमपि विवेक्तुरप्यर्थप्रतिपादनसमर्थं न भवतीति / एवं विचार्यमाणमिदं वाक्यं दोषेभ्यो न मुच्यते / अथवा नैवायं दोषो, न च विचारयोग्योऽयमुद्राहः /