________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 131 प्रापणीयः। एवं प्रसिद्ध्यप्रसिद्धिभ्यां विशेषणविशेष्यौ तावेवोपकारकोपकार्यत्वाभ्यां पदार्थस्वार्थो न तथाग्निहोत्रं जुहुयादित्यत्र प्राप्तविशेषणपदार्थविषयत्वमग्निहोत्रजुहुयाच्छब्दयोरतोऽप्राप्ताविशेषणापरार्थत्वासाम्यादनुवादत्वाभावः / अभ्युपगम्यापि प्राप्तादिदोष उच्यते / यत्पश्चादुच्यते कर्तव्यताप्रसिद्ध्यर्थमितिकर्तव्यतावाक्यं घृतेन जुहुयादिति तस्य विधिविषयविप्रकृष्टीभूतत्वं जुहुयाच्छब्दस्यानुवादाभिमतस्य / किं कारणम् ? प्राप्तविशेषणपरार्थविषयत्वादनुवादस्य / अप्राप्तविशेष्यस्वार्थविषयत्वाद्धि वेदादिवाक्यगत एव तावजुहुयाच्छब्दोऽनुवादो घटते / प्राप्तत्वाद्यभावात् तस्यानुवादस्तु घृतेन जुहुयादित्यत्र जुहुयाच्छब्द इष्टः स्यात् तत्प्रतिरूपकस्तस्यार्थप्रतिशब्दकस्यैवेत्यापन्नोऽप्राप्ताविशेषणापरार्थत्वात् / विधेविषयविप्रकृष्टीभूतार्थश्चेति ततश्च विधिविषयविप्रकृष्टीभूतार्थत्वान्न कर्तव्यताविषयत्वमितिकर्तव्यतायाः / यथा दशदाडिमादिश्लोकावयवानाम् / किं चान्यत्-इति विघटितेत्यादि, यावद्गण्डस्योपरि स्फोट आपादित इति / इतिशब्दो हेत्वर्थे / यसादित्थं कर्तव्यविषयविप्रकृष्टत्वमितिकर्तव्यताया इत्यादिदोषजातं विध्यनुवादत्वाभावात् , तस्माद् घटितविघटितं प्रागीषद् घटितमासीत् / सेवादिवदितिकर्तव्यतैव कर्तव्यतेति तदप्यनया प्राप्तिविहितस्वरूपसिद्धेरित्यादिकया कल्पनया विघटितमुक्तविधिनैव ततश्च प्रतिसमाधेये विरुद्धतरदोषापादनं विधिविषयविप्रकृष्टीभूतार्थत्वादिति, ततश्च प्रतिसमाधेये तसिन्नेव वाक्येऽनुवादत्वाभावादवाक्यत्वादिति दोषदुष्टे तत्प्रतिसमाधानार्थमुच्यते त्वया अहो परमविदुषा चिकित्सकेनापेक्षितपूर्वापरक्रियाविधिविपाकेन चिकित्सयैव गण्डस्योपरि स्फोट आपादितः। तस्मादप्रसिद्धार्थत्वान्न मौलौ जुहोतेर्नेतरो वानुवादो घटते / यदि भवतो घृतेन जुहुयादित्यस्यानुवादत्वमिष्टं ततोऽहमेव ते बुद्धिसंविभागं करोमि / श्रूयताम् , लौकिकजुहोत्यर्थानुष्ठानप्रकृतोपदेश एव त्वयं परमणुवादः स्यात् / लोकिको हि दानादनार्थी जुहोतिस्तदर्थानुष्ठानप्रवृत्तोपदेशो यद्यस्य विषयः स्याद्दद्यादद्यादिति तदर्थप्रसिद्धेस्तद्विषयोऽनुवादो युज्यते विधिर्वा यसै कस्सैचिद् यदि किश्चिद्दद्यान्न घृतं दद्यात् तेन जुहुयाद्यदि भुञ्जीत घृतेन जुहुयादित्येतस्मिन्नर्थेऽनुवादो घटते स चानुपपन्ननियमार्थ उपदेशः / समीकृत्य व्याख्यातोऽर्थोऽस्य शब्दस्य ते मया तथापि तु पुनस्त्वदिष्टविरुद्धार्थमेतदापद्यते लोकेऽनुपपन्ननियमोपदेशार्थत्वदर्शनात् विचित्रयोर्दानभोजनयोः खपरप्रीतिहेतुत्वात् / यथोपपत्तिघृतेन पयसा दना गुडेन च भुञ्जीत, तान्येव च बुभुक्षा चेदद्यादिति / न तु यथाक्षिवैद्यके त्रिफलां घृतेनैव भक्षयेन गुडेन, गुडस्य चाक्षुष्यत्वात् / यथोक्तम्