________________ 130 नयचक्रम् / [हवनक्रियानोपपद्यते / किं कारणम् ? पौनरुक्त्यत्वात् प्रयोगायोग्यत्वं ततश्चानुवादत्वासम्भवस्तस्मादनुवादासम्भवात् तन्नेत्यभिसम्बन्धः / इदं च पुनरुक्तमर्थापन्नस्य शब्दार्थपुनर्वचनलक्षणे पुनरुक्ते निग्रहस्थानविकल्पे / द्विविधं पुनरुक्तं निग्रहस्थानम् / तद् यथा-शब्दार्थयोः पुनर्वचनं पुनरुक्तमादापन्नस्य स्वशब्देन पुनर्वचनं वेति / तस्मादिदमर्यादापन्नस्य पुनर्वचनं विशेषविधानमन्तरेणार्थापनार्थस्य स्वशब्देनोचारणात् / घृतेन जुहुयादित्यत्र न स्यात् पुनरुक्तं घृतविशिष्टहवनविधानात् / इह तु स्वर्गकामानुरूपकर्मानुरूपक्रियाविशेषविध्यर्थताया उपदेशवृत्तेरेव गतार्थतयाभ्युपगतत्वात् / घृतविशिष्टहवनविधानजुहोत्यनुवादतायाश्च मूलवाक्यगतजुहोत्यथोसिद्धेरननुवादतैव / किं चान्यत्-जघन्यतरा चेयं व्याख्या / कस्मात् ? साक्षाच्छुतविधेर्जुहुयात्यागेन चार्थापनार्थाश्रुतानुदितजुहुयाद्विकल्पनात् / स एव पुरुषप्रमाणकत्वदोषः शब्दाप्रामाण्यदोषश्च जुहुयादित्यस्य क्रियाशब्दस्य विध्यर्थस्य साक्षाच्छ्रुतस्य प्रत्यक्षस्य त्यागं कृत्वार्थापनार्थस्यार्थादापन्नोऽर्थोऽस्येत्यर्थापनार्थः / कोऽसौ ? स एव जुहुयाच्छब्दोऽनुवादाभिमतः / तस्याश्रुतस्याथापन्नार्थस्य तूदितविकल्पनात् अनुवादकल्पनात् / तनातिवर्तते / किं चान्यत्विधीयमानवाक्यार्थविषयानुवादनाच, विधीयमानो वाक्यार्थो विधीयमानवाक्यार्थः, स विषयोऽस्येति विधीयमानवाक्यार्थविषयः स एव जुहुयाच्छब्दस्तस्यैवानुवदनं स एवानुवादस्तस्माद्विधीयमानवाक्यार्थविषयानुवादनाच्च / किं संवृतम् ? वाक्यभेदस्य पुनरुक्तस्य चाङ्गीकरणम् ? न हीदमेव वा स्वर्गकामाभिसम्बद्धाग्निहोत्रं विधानं तदनुवदनं च कर्तुं शक्नोति स्वर्गकामकर्टकस्याग्निहोत्रकमणो वाक्यान्तरेणाप्रापितत्वात् / यथायं देवदत्त इत्यत्र तु देवदत्त एवानूद्यते विधीयते च / प्रत्यक्षसिद्धस्त्वंदसो विषयोऽनूद्यते / एवमिह प्रसिद्धार्थाऽपेक्षया स तु नास्ति / तस्मादुभयार्थकल्पनादेकस्य तदसम्भवाच वाक्यभेददोषः / पौनरुक्त्यं तु विशेषविधानाभावात् / विशेषविध्यर्थो ह्यनुवादो युक्तो यथायं देवदत्त इत्ययं शब्दः। प्रत्यक्षप्रसिद्धार्थ अनूध देवदत्तविधानम् / न तु तथात्र कश्चिद्विशेषो विधीयते / तस्मादविशेषाभिधानात् पौनरुक्त्यम् / तस्मादग्निहोत्रं जुहुयादित्यस्य वाक्यस्य प्रथमत्वादेकवाक्यगतत्वाचानयोर्विध्यनुवादयोरापन्नाग्निहोत्रकर्मविधित्वे जुहोतेरनुवादत्वे वाक्यभेदपुनरुक्तदोषाङ्गीकरणान्नेत्येवाभिसम्बध्यते / एवं तावदग्निहोत्रं जुहुयादित्यत्र जुहुयाच्छब्दो नानुवादो घटते / न चाग्निहोत्रं स्वर्गकाम इति विधिः। किं चान्यत्-अनुवादानुवादस्य च प्राप्तविशेषणपरार्थविषयार्थत्वात् / अनुवादत्वं हि प्राप्तविषयार्थं यथायं देवदत्त इत्ययं शब्दार्थः / प्राप्त्यर्थप्राप्तो देवदत्तार्थोऽधुना चाच्छु ग। 2 °नुदिव ग। 3 वाच्या' ग। 4 स्त्विदमा ग /