________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 129 सिद्धम् / अतः प्राप्तिविहितस्वरूपसिद्धेरग्निहोत्रस्य कर्मत्वेन च श्रवणात् / कस्य ? कर्तुः स्वर्गकामस्य कर्मत्वाभिधानात् / ततः किमिति चेत् ? / स्वर्गशब्दाभिहितविशिष्टकर्मविषयकामाभिधायिशब्दश्रवणात् कर्मापि तदग्निहोत्राख्यं तदनुरूपं विशिष्टमेवेत्युक्तं भवति, अतः स्वर्गकामकर्मत्वाभिधानादवगमितकामानुरूपकर्मोक्तस्वर्गकामशब्दावबोधेन कामानुरूपस्यैव कर्मण उक्तत्वादेव तद्विध्यक्रियाविशेषगतेर्विशिष्टफलविषयकामः पुरुषः कर्ता / कर्मापि तदनुरूपत्वाद्विशिष्टमेव तद्विधैव / क्रियापि अप्रसिद्धफलविषयकामसम्बन्धिकर्मा, अप्रसिद्धं यथा तथावदनुष्ठानव्यापारविशेषोऽपि विशिष्टोऽप्रसिद्ध एवेति गम्यते / किं कारणम् ? / तत एव शब्दात् तस्य क्रियाविशेषस्य गतेक्यिान्तराभावात् तद्विशेषगतिरतः क्रियाविशेषगतेः क्रियाप्राप्यत्वाच्च कामस्य न ह्यन्यः कश्चिदुपायोऽस्ति कामप्राप्तौ क्रियातः, क्रियया शब्देन वा तदर्थावगमनात् / यथा त्वलकस्य वीथीमध्यपतितस्य हस्तं प्रसार्य कपर्दिकां देहि कपर्दिकां देहि भो ! इति वा रारव्यमानस्य कामोऽवगमितः क्रियया शब्देन वा प्रकरणविशेषसम्बन्धात् / सा च क्रिया नोपदेशमन्तरेण सिद्ध्यति / अलकावमितकामरटनवदग्निहोत्रं स्वर्गकाम इत्युक्ते कुर्यादित्यर्थादापन्नो विध्यर्थोऽवगमितकामत्वात् / तस्यालकस्य यो वार्थः स च विशेषसम्बन्धो वाक्यन्यायेन भवति, यथा सब्रह्मचारिणा सहाधीत इति समानेन ब्रह्मचारिणाऽधीते / केन सामान्येन समानेन ? प्रकृतविशेषणत्वात् प्रकृताध्ययनक्रियेणेति गम्यते / एवमिदमपि वाक्यम् , अनेन वाक्यन्यायेन प्रकृतस्वर्गकामाग्निहोत्रकर्मानुरूपविध्यर्थक्रियोपदेशतास्येति गम्यते / अँतो हेतुहेतुमद्भावः प्रतिपादितः। प्राप्तिविहितस्वरूपसिढेरग्निहोत्रस्येत्यादि यावजुहुयादित्यर्थापन्नार्थोऽनुवादोऽग्निहोत्रं स्वर्गकाम इत्येतावता कुर्याद्वाक्यशेषेण वाक्येन गतार्थत्वात् , तदेवं जुहुयादित्यनुवादो न विधेरितीयं व्याख्या न्याय्या व्यक्तार्थोपपत्तित्वात् / प्रागभिहितव्याख्याविकल्पसमुत्थदोषाभावाच्च न्याय्येति मन्तव्या, यसादादिवाक्ये प्रधानश्रुत्यत्यागगुणकृदपीति / यदभिहितं प्रागग्निहोत्रं जुहुयादित्यस्य वाक्यस्याग्निहोत्रं कुर्यादित्यर्थव्याख्याविकल्पे 'विध्यर्थवाचित्वाभिमतश्रुतप्रधानजुहोत्यर्थत्यागस्ततः पुरुषप्रमाणकता / तदत्यागे वाक्यभेदापत्तिः पौनरुक्त्यादिदोषजातं तदप्यत्र नास्ति' जुहुयाच्छब्दस्यानुवादत्वादेव हवनं कुर्यादित्यत्राप्यग्निहोत्रप्रधानत्याग इत्यादिदोषजातं तदपि नास्ति / तस्मादियं व्याख्यादिवाक्ये प्रधानश्रुत्यत्यागगुणकृदपीति / तस्य जुहोतेरनुवादत्वेन पौनरुक्त्यत्यागभेदाधभावात् / चेदित्याशङ्कायाम् / एवं चेन्मन्यसे इत्येवं ध्रुवन्तं परं दृष्ट्वाचार्य उत्तरमाह-तन्नार्थापत्तेरित्यादि / एषापि व्याख्या स्येत्यादि ख / 2 स्यांधल° ग। 3 °ति° ग। 4 ता हे ग। 5 श्रुत ग / 6 तत्राग।