________________ 128 नयचक्रम्। [हवनक्रिया इतीयमक्षरविद्या क्वचिदवगतार्थेति विज्ञायते अप्रमत्तप्रयुक्तत्वात् / तथायमपि जुहोतिप्रयोगो नान्यथा / तद्यदि प्राप्तिप्रापितदानार्थोऽग्निहोत्रं जुहुयादित्यत्र होत्रशब्दो जुहोतिशब्दो वा ततोऽयं घृतेन जुहुयादिति पुनर्जुहोतिर्न प्रयुज्येत, प्रयुक्तस्तु तस्मात् प्राप्तियुदस्तेति / एवं तर्हि प्राप्तिवाक्यवृत्तजुहोत्यनुवाद इति चेत् / स्यान्मतम्-प्राप्तिवाक्येऽग्नये जुहोतीति श्रुतस्याग्निसम्प्रदानकस्यादानार्थस्य जुहोतेरनुवादोऽयं घृतेन जुहुयादिति / जुहोतिरित्येतच न तत्र विधिलिविषयस्यावृत्तेरज्ञातत्वान्नैवमप्युपपद्यते तत्र प्राप्तिवाक्ये जुहोतीत्यव्यापार्यमाणकर्तृसाधनदानार्थजुहोतिधातुप्रयोगस्य विधिलिङो विषये व्यापारेणार्थवृत्त्यभावात् / अस्य च जुहुयाच्छब्दस्य विधिलिविषयस्य नियोगार्थस्य नियोगरहिते जुहोतिशब्दार्थे तत्रावृतेरयं विधानार्थो न विदित एव तस्मादज्ञातत्वात् प्राप्तिवाक्यवृत्तजुहोत्यर्थानुवादायोग्यता / 'प्राप्तमनूद्यते, अप्राप्तं विधीयत' इतिवचनात् / तस्मादनुवादायोग्यत्वादयुक्तमुक्तं प्राप्तिवाक्यवृत्तजुहोत्यनुवाद इति / विध्यनुवादस्य तद्विषयतेति चेत् , स्यान्मतं लक्षणशास्त्रेऽभिहितम् 'व्यत्ययो बहुलम्' (पा० 3 / 1185) 'सुपूतिङपग्रहलिङ्गनराणां कालहलच्खरकर्तृयङां च / / व्यत्ययमिच्छति शास्त्रकदेषां सोऽपि च सिद्ध्यति बाहुलकेन // (पा० म० भा० ख० 3, पृ० 115) तस्माजहोत्यर्थे जुयाच्छब्दस्य प्रयोगात् प्राप्तमेवानूयते तद्विषयत्वादेवास्यापीति / एतदपि न, अज्ञातत्वादेव / अनुवादत्वात् सव्यापारणार्थशब्ददर्शनान्नि ापारणार्थत्वाच्च इदं त्वया सन्निहितदेवताकोशपानेने प्रत्याय्यं विशेषलिङ्गाभावात् / कुत एवं ज्ञायते जुहोत्यर्थे जुहुयाच्छब्दः प्रयुक्तो न स्वार्थ एव जुहोतिर्वा जुहुयादर्थे प्रयुक्त इति ? / तस्मादविदितार्थत्वाद्विधित्वं, विधित्वाच नानुवादोऽननुवादत्वाच्चैवमपि न युक्तम् / अभ्युपेत्यापि जुहोत्यर्थे जुहुयाच्छब्दस्य वृत्तिदोषक्रमः। हवनाच्च भावनमेवमनवगमितमेवाभिप्रेतस्य स्यात् / विध्यर्थाभावात् पुरुषो हवनकर्मण्यनियोजित एव / ततो भावनं स्वर्गाख्यस्य विशिष्टसुखलक्षणस्य देशविशेषस्य विशिष्टसुखसाधनभूतदयाभिप्रेतस्यार्थस्य भावबोधकं स्यात् / यदर्थमितिवृत्तमिदं वाक्यं स्वर्गाख्यफलसाधनेऽग्निहोत्रकर्मणि पुरुषं नियोक्ष्यामीति / तदर्थ हि वाक्यमग्निहोत्रं जुहुयादित्येतत् प्रवृत्तमनेनैव कर्मणा स्वर्गो भाव्यते / तस्मादिदं कुर्विति तदर्थज्ञापनाभावे किमनेन वाक्येन जुहोति जुहोतीत्युक्तेन ? / अत्राह-प्रागभिहिताग्निहोत्रकरणवाक्यार्थविकल्पगतदोषपरिहारार्थमियमर्थव्याख्याऽऽश्रीयते / प्राप्तिविहितस्वरूपसिद्धेरग्निहोत्रस्येत्यादि / इदं तावद्यवस्थितं यदनये च प्रजापतये च सायं जुहोतीत्यनया प्राप्त्या विहितमग्निहोत्रस्य स्वरूपं 1 तदपि क-ग। 2 °मानेन ख। 3 प्राप्यम् ग /