________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 127 दिप्रसिध्युपरोधेन दहन एव तावद्विधेयः। तावच्छब्दः क्रमार्थे / जुहोतीत्ययं धातुलॊकप्रसिद्धदानादनार्थो न भवति / किं तर्हि ? दहनेनाग्निना दाहयेद् घृतादिद्रव्यमित्युक्तं भवति / अग्निहोत्रं जुहुयादित्येतदिति परिभाव्य पश्चात् प्रसिद्धे दहने घृतेन जुहुयाद् घृतं दाहयेदग्निं, अग्निना घृतं दाहयेत / अग्निघृतं दहेदिति ज्ञानार्थमनोतिकर्तव्यताविधिर्योक्ष्यते लोकप्रसिद्धिवैपरीत्येन व्युत्पादनेनान्यथा / अन्यथा तु लोके दहनादिष्वदृष्टत्वात् / कथं दहनमनूध घृतादीतिकर्तव्यता विधीयते? / तथाप्रसिद्धरविधायक एव कुतस्तदनुवादः ? इतिशब्दो हेत्वर्थे / इत्येतस्मात् कारणात् / तथा तेन प्रकारेण दहनार्थत्वेनाप्रसिद्धेरग्निहोत्रं जुहुयादित्यत्रैव तावजुहुयाच्छब्दो दाहनस्याविधायको ह्यत एवानुवादः / अत्रैव ननु सेवादिवत् कर्तव्यताप्रतिपत्तिरितिकर्तव्यताभ्य इत्युपक्रम्य ग्रन्थो योज्यो, यावद्वेदवादासाधुता वा तद्वदिति / एवं तावजुहुयाच्छब्दस्य दाहनार्थत्वाभावादयुक्तं होत्रशब्दस्य वा तथाभूतार्थाभ्युपगमे चेति / अभ्युपेत्यापि दाहनात्मकमेव दानमिति दोषक्रमः / कोऽसौ प्राप्तेयुदासः / येयं प्राप्तिर्यदग्नये च प्रजापतये च सायं जुहोतीति / यया प्रापितमग्नौ प्रक्षेपो दानमिति तस्याः प्राप्तेढुंदासः। कस्माद् ? घृतेन जुहुयादित्यत्र जुहोतिप्रयोगात् / अन्यथा प्राप्तौ श्रुतेन जुहोतिनोक्तत्वात् तदर्थस्य गतत्वादप्रयोगार्हत्वात् पौनरुक्त्यमस्य स्यात् / प्रयुक्तस्त्वयमतो ज्ञायते प्राप्तिश्रुतजुहोतिरनर्थक इति तस्मात् प्राप्तेयुदासो जुहोतिप्रयोगात् / यदा वायं घृतेन जुहुयादिति प्रयुज्यते तदा ह्ययमवगतार्थ इति विज्ञायेत / यद्यन्येन शब्देनास्यार्थोऽनभिहितः स्यात् / किं कारणम् ? अप्रमत्तप्रयुक्तत्वात् / अप्रमत्तेन हि वेदेन प्रमत्तात् पुरुषाद्विलक्षणेन रागाविद्यादियोगरहितेन प्रयुक्तोऽयम् / त्वन्मतेन लौकिकेनैव वा पुरुषेणाप्रमत्तेन विदुषा प्रयुक्तत्वात् / अस्मन्मतेन मा भूत् सर्वपुरुषाप्रामाण्ये शब्दानां च पुरुषाधीनोपलब्धित्वादप्रामाण्यमेवेति / अयं हि घृतेन जुहुयादित्यत्र जुहोतिशब्दोऽप्रमत्तप्रयुक्तेन येन केनचिद्रालगोपालादिप्रयुक्तकल्पेन तुल्यः। काकरुतादिकल्पेन तुल्यः / क इव ? इषे त्वादिवत् / यथा'इषे त्वोर्जे त्वा वायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण' ( यजु० 11) इत्यादि / शब्दा अवगतार्था इति विज्ञायन्ते। तथायं घृतेन जुहयादिति वाक्ये जुहोतिः प्रमत्तप्रयुक्तत्वादवगतार्थ इति विज्ञायेत / नान्यथा। अथवाक्षरविद्यावत् / यथा 'द्वे विद्ये वेदितव्ये........ परा चैवापरा च // 4 // .....अथ परा यया तदक्षरमधिगम्यते // 5 // यत् तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादम् / नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्ययं यद्भूतयोनि परिपश्यन्ति धीरा' // 6 // _(मुण्ड० 11) १°द्धत ग।