________________ नयचक्रम् / 126 [हवनक्रियाजुहोतिप्राधान्ये च तदनुपपत्तिः / अत्र च ननु घटवदग्निहोत्रशब्दः काश्चिदपि कर्तव्यतां ब्रवीतीत्यादि सर्वो ग्रन्थः पूर्वोत्तरपक्षप्रसङ्गतो योज्यो यावन्नापि घटादिकर्तव्यतायामिव काचित् क्रिया प्रसिद्धा, ययाग्निहोत्राख्यता हवनस्सातिदिश्येत / हवनाख्यता वाग्निहोत्रस्पति हवनं कुर्यादित्ययमुक्तोत्तरार्थविकल्पः / अपूर्वार्थपक्षेऽप्यग्निहोत्रशब्दस्य जुहुयाच्छब्दस्सैकार्थत्वात् प्रधानापूर्ववाच्याग्निहोत्रशब्दस्य त्यागस्तथैव विशेषस्तु, अथाग्निहोत्रमित्यपूर्वविशेषाभिधानार्थतैव कल्पते तथासत्यपूवोभिधानेन कोऽर्थः ? इत्यादि यावत्तदनुष्ठातव्यमिति ग्रन्थश्च योज्यः / आदिग्रहणात् पुरुषप्रमाणकताशब्दप्रामाणत्यागइत्यादिदोषस्ततः प्रधानाग्निहोत्रश्रुतित्यागाद्यापत्तिरर्थाभावात् / वेदमभिहितमित्यादि / अग्निहोत्रोभयकरणार्थतयोरपि जुहोतित्यागाद्यापत्तेरग्निहोत्रं कुर्यादग्निहोत्रहवनं कुर्यादित्येतयोरपि विकल्पयोस्तुल्योत्तरत्वात् / उभयार्थविकल्पस्याग्निहोत्रं कुर्यात् हवनं कुर्यादित्येतयोः पक्षयोरुक्तदोषदुष्टत्वात् समानोत्तरत्वादिति / अत्रापि 'अथ पुनरेवमनिर्वहती'त्यादिग्रन्थो योज्यः सप्रपञ्चो यावत् त्वदभिप्रायवस्तुहवनानुवादविशिष्टाग्निहोत्राभ्युपगमेऽपि चाग्निहोत्रस्यात्मादिवस्तुतत्त्ववदप्रसिद्धस्वरूपत्वात कारणासिद्धिः। शैलीप्रसिद्धौ च्छिदिवदित्यादि, च्छिदाविव च्छिदिवत् / यथा च्छिदौ दृष्टलौकिकयूपमात्रफलत्वं, नाहष्टालौकिकहवनात्मकाग्निहोत्रत्वं तथानिहोत्रत्वम् / तथाग्निहोत्रं जुहुयादित्यस्यापि तच्छैल्यैवाग्निहोत्रहवनात्मकम् / अहवनात्मकाग्निहोत्रत्वाच्चाग्निहोत्रत्वं प्रसक्तम् / छिदिनिवर्त्ययूपवत् / अत्र च 'एतदपि न, वैषम्यादित्यादिग्रन्थो योज्यो याव'च्छैलीप्रामाण्ये चास्य शैल्या यूपक्रियायाथार्थ्या'दिति / ततश्चानग्निहोत्रत्वप्रसङ्गाद् यदग्नये होत्रं तदग्निहोत्रमिति तावन्मात्रार्थत्वाप्रधानस्य स्वर्गासाधनताभिमतस्यानग्निहोत्रत्वाद् घृतेन जुहुयादित्यनेनानुवादेन प्राधान्यवर्गकामानभिसम्बद्धजुहोत्यर्थानुवादेन किं प्रयोजनमितिकर्तव्यताकर्तव्यतया ? प्रधानेन स्वर्गकामेन विना किं तया? यथोक्तम् "कातरसतेन सूरं सूरसहस्सेण पंडितं भरसु / अलसं जेण व तेण व णवर कतग्धं परिहराहिँ // " इति / प्रधानार्थमप्रधानत्यागदर्शनात् प्राप्तिप्रतिपाद्यप्रसिद्धौ अग्निहोत्रे प्राप्त्या प्रतिपाद्या प्रसिद्धिः तस्मिन् प्राप्तिप्रतिपाद्यप्रसिद्धौ / क? अग्निहोत्रे / यदग्नये च प्रजापतये च सायं जुहोतीत्यनया प्राप्त्या प्रतिपाद्यप्रसिद्धौ तु तस्मिन्न जुहोतिप्रयोगो दाना 1 ते ग / त्तेः श्रुति° ख। 2 कायरसएण ख। 3 पंडियं क / 4 छाया-कातरशतेन शूरं शूरसहस्रेण पण्डितं भर / अलसं येन वा तेन बा नवरं कृतघ्नं परिहर //