________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 125 स्याग्निहोत्रहवनकारणार्थस्य वाक्यस्य वाक्यता। कुत इति वा कर्तव्यता वाक्यासिद्धौ तदसिद्धेस्तत्सिद्धौ तत्सिद्धेः। ततः पुनरितिकर्तव्यतावाक्यम् / तद्वाक्यत्वे तद्धलप्रतिष्ठाप्यकर्तव्यतावाक्यमप्यवाक्यम्, तत्र तावद् घृतेन जुहुयादित्येतदितिकर्तव्यतावाक्यमवाक्यमनुवादत्वादुन्मत्तप्रलापवत् / यथा कामोन्मत्तस्य पक्षीति दर्शनभ्रान्तेहाँ प्रिये! इत्यादि प्रलापो न वाक्यं प्रसिद्धाथोनुवादाभावात् / एवं घृतेन जुहुयादित्यस्यापि तदभावात् तत्कर्तव्यताभावः / अनुवादत्वं चाचोद्यघृतसम्प्रदानकहवनविधानविधिवाक्यस्य विध्यनुवादयोश्चान्योऽन्यनिराकासयोरन्यतराभावः / स्यान्मतम्-विधिमात्रस्य द्वार द्वारमित्यनुवादमात्रस्योद्घाट्यतामिति दृष्टत्वान्नोपेक्षेतेति चेत् ? न, तत्रापि बहिरङ्गस्थितप्रकरणादिभ्यः तत्सिद्धेरपेक्षैव / तस्मादिहेतिकर्तव्यतैव कर्तव्यतेतिवचनात् कर्तव्यतावाक्यस्यैवासिद्धेः / घृतेन जुहुयादित्यस्य प्रसिद्धार्थस्यानुवादत्वाभावादवाक्यत्वम् / तदवाक्यत्वात् तद्भलप्रतिष्ठाप्याग्निहोत्रहवनकर्तव्यताविधिवाक्यासिद्धिः। अत आह-जुहुयादित्यस्योक्तवदेवेत्यादि / जुहुयादग्निहोत्रं कुर्यात् / हवनं कुर्यात् / अग्निहोत्रं हवनं कुर्यात् / प्राप्त्यनुबन्धप्रापितघृतादीतिकर्तव्यतात्मककर्तव्यताग्निहोत्रं कुर्यात् / अग्निहोत्रमपूर्वं कुर्यादिति उक्तविकल्पेषु प्रागभिहितदोषसम्बन्धात् / एतैः सर्वैः प्रकारैः प्रयोगस्य परिक्षायां निर्मूलार्थत्वमविषयत्वादविषयत्वमपूर्वार्थत्वादपूर्वार्थत्वमज्ञानार्थत्वादज्ञानार्थत्वं प्रमाणान्तरेण वा प्रागविहितत्वादिति तमुपसंहृत्याहइतिकर्तव्यतावाक्यप्रत्ययापि न कर्तव्यतागतिः / केदमभिहितं जुहुयादिति यदुच्यते त्वया यत् जुहुयात् तद् घृतादिनेति हवनमनूद्य घृतादिना तद्विधानं क्रियेत, यथा घटं कुर्यादिति प्रसिद्धं घटमनूद्य तत्करणविधानं तत्तु न प्रसिद्धम् / कथं न प्रसिद्धमग्निहोत्रम् ? जुहुयादित्यत्र हवनस्योक्तत्वादिहानुवदनं न तूपपन्नमिति चेत् न, तस्यैव सर्वप्रयोगपरीक्षायामर्थाभावात् / तत्र तावत् हवनापूर्वकरणार्थतायाः प्रधानाग्निहोत्र श्रुतित्यागाद्यापत्तिरर्थाभावादित्याद्यभिसम्बध्यते / क्रमोल्लङ्घनेन विकल्पद्वयोपन्यासस्तुल्योत्तरत्वात् / हवनं कुर्यादग्निहोत्राख्यमपूर्व कुर्यादित्येतयोरर्थविकल्पयोः प्रधानस्याग्निहोत्रशब्दस्य तदर्थस्य च त्याग आपद्यते / घृतेन जुहुयादित्यादिष्वनुवादसफलीक्रियार्थमग्निहोत्रं जुहुयादित्यत्र जुहुयाच्छब्दस्य स्वप्रकृत्यर्थस्य सार्थकत्वेऽग्निहोत्रशब्दः पौनरुत्यानिरर्थक आपद्यते / अथ प्रधानत्वादग्निहोत्रस्य मा भूदग्निहोत्रशब्दो निरर्थक उच्यते / ततो जुहुयाच्छब्दनैरर्थक्यात् प्रयोगो नोपपद्यते / विहितार्थाभावेऽनुवादे वाभावात् / प्रधानत्वं चाग्निहोत्रस्य साक्षात् स्वर्गादिकाम्यपुरुषार्थसाधनत्वेन विधानात् / 1 °दित्यतसिद्धेः क-ख। 2 तत्तू ग। 3 °दित्ययत्यद ग। °दिस्वा ग /