________________ 124 नयचक्रम् / [हवनक्रियानच्छलादिति / अथ त्वयैवमुच्येत न मया कारणकमात्रकार्यदर्शनैकान्तोऽभ्युपगम्यते / यतस्त्वयैते दोषा मां प्रत्यापाद्यन्ते, किं तर्हि मयाभ्युपगम्यते ? न कारणमेव न कार्यमेव नोभयमेव नानुभयमेवेत्यविचार्य वस्तुतत्त्वैकान्तपरिग्रहमकृत्वा कारणं कार्य उभयमनुभयं वाभ्युपगम्यतेऽसिन् 'अग्निहोत्रं जुहुयात् स्वर्गकाम' इति वाक्ये यत्कारणमात्रकार्यप्रदर्शनमनुयात्वा परित्यक्तमिह विधिनये सदपि यत्तदत्र निर्मूलापविद्धक्रियावाक्यप्रबन्धम् , निर्मूलमपविद्धः क्रियाप्रबन्धो वाक्यप्रबन्धश्च यसिंस्तदिदं निर्मूलापविद्धक्रियावाक्यप्रबन्धं तस्मात् कारणमात्रकार्यदर्शनस्य तद्दोषपरिहारार्थमिष्टमतो विवक्ष्यतेऽनवधारितैकान्तदर्शनत्वात् / कारणमात्रत्वं त्यक्त्वा यत् कायोसत्त्वं तदेवाग्निहोत्रं जुहुयादिति वाक्ये कारणमात्रकायेदशेनमेव सत् असत्कार्यमिति विवक्ष्यतेऽभ्युपगमे च / किं कारणम् ? अलब्धवृत्तित्वात् / अलब्धा वृत्तिरनेनेति अलब्धवृत्ति कार्य तस्मादलब्धवृत्तित्वात् खपुष्पवत् / यथा खपुष्पमलब्धवृत्तित्वादसत् तथा कार्य स्वांपूर्वादि अलब्धवृत्तित्वादसत् , लब्धवृत्ति चेत् कुर्याजुहुयादिति न चोयेत सिद्धौदनार्थं पचेदित्यचोदनवत् / अतोऽसत्कायेमागृह्य स्वर्गादि तत्प्राप्त्यर्थं क्रियाऽऽश्रीयतेऽग्निहोत्रं कुर्यादिति / तद्विविधम् / तच्च कार्य द्विविधमनितिकर्तव्यतात्मकमितिकर्तव्यतात्मकं च / तत्रानितिकर्तव्यतात्मकं च कार्य घटादि यूपादि च लोके वेदे च दृष्टं मृदानयनमर्दनदण्डग्रहणचक्रभ्रमणादीतिकर्तव्यतात्मकं घटाख्यं कार्य न भवति / तदुपरमेऽपि पृथगुपलब्धेस्तथाष्टाश्रिकरणादीतिकर्तव्यतात्मको न भवति यूपः / इतिकर्तव्यतात्मकं पुनः कार्य प्राप्तिसंवादि प्राप्त्या संवदितुं शीलमस्य प्राप्तिसंवादि / यथा सेवादि उपस्थानाञ्जलिकरणादिरूपैव सेवा ताभ्यः पृथगनुपलब्धेः तत्कार्य न कारणमात्रं नेतिकर्तव्यतात्मकं घटादि यूपादिवत् / कुर्यात् प्रतिपादितादसत्कार्याकार्यवादात् कुर्याच्छब्दप्रतिपादितादग्निहोत्रं कुर्यादित्यत्र कुयोच्छब्देन प्रतिपादिताद्धटं कुयोदिति प्रतिपादितघटासत्कार्यार्थवाक्यवदिदमपि वाक्यं स्फुटतरासत्कार्यार्थम् / किं कारणम् ? आदौ मध्येऽन्ते च कर्तव्यताभ्युपगमात् / अतोऽसत्कायेवादस्यौपक्रमप्रभृत्यपवर्गपर्यवसानेषु क्रियाविशेषेष्वभ्युपगतत्वात् / यदुच्यते त्वया दोषजातं तत् त्वद्वचनात् प्राप्तिप्रापितेतिकर्तव्यतैव कर्तव्यतेति वचनच्छलात् कारणमात्रकार्यात्वापत्तिस्ततो विध्यनुपपत्तिरित्यादि सर्व दोषजातं नास्तीति, एतदपि नोपपद्यते विधिविधिनयदर्शनोपपादयिष्यमाणकारणमात्रत्ववादात् / अभ्युपेत्याप्यसत्कार्यवादोक्तावपि नैवास्य वाक्यताप्राप्त्यनुबन्धप्रापितेतिकर्तव्यताकर्तव्यत्वार्थ 1 यत्वा सवां त्वं क-ग। 2 अलब्धवृत्तिरनेनेति लब्धवृत्ति ग। ३त्वे ग्र। 4 पर्यापर्याद ग।