________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 123 शुक्लामिति / ज्ञाताज्ञातार्थता पदानां वाक्यानां च साधुत्वाभिमतानां प्रत्येकं सर्वेषां व्यर्थता दृष्टा / को दृष्टान्तः ? घटज्ञानवत् / यथा घटज्ञानस्यारातीया भागाश्चक्षुराधुपलभ्या ज्ञाताः परान्तर्बुध्नादिभागा न ज्ञाताः शेषा लोकप्रसिद्धाः। साधुता पदवाक्यशब्दानां कारणात्मकार्यवादेऽसिन्न घटते / सर्वस्यैकात्मकत्वे ज्ञाताज्ञातभेदानुपपत्तिः / एकस्यैव वा तदुभयाभावाद्विध्यनुवादत्वाभावस्योक्तेः / काकरतादिवदिति / नाप्यसाधुता वाक्यभेदानर्थक्यादिदोषसम्बद्धा घटते / यस्मात् कारणात्मककार्यवादेऽथान्तराभावात् / ज्ञाताज्ञातालम्बनविध्यनुवादार्थयुगपद्विवक्षावृत्तिवाक्यभेददोषपरिकल्पनापरिश्लथया यथासंख्येन / ज्ञातालम्बनोऽनुवादः, अज्ञातालम्बनो विधिः, तयोरर्थयोयुगपद्वक्तुमिच्छा युगपद्विवक्षा, एकस्मिन्नर्थे तस्या वृत्तिरसौ व्यर्थतावाक्यभेदः / देवदत्ताख्यानवाक्यस्यैव [गवयस्यैव गवानयनचोदनायां देवदत्तान्वाख्यानवदनुवादः। गवानयनविधानवाक्यस्य वा देवदत्ताख्यानवाक्यवद्देवदत्तविधानमिति। यत्रेयमेकस्य शब्दस्य युगपदर्थद्वयाभिधानशक्त्यभावाद्वाक्यभेददोषपरिकल्पना तस्याः परिश्लथता अर्थभेदाभावात् / अतोऽसाधुतापि शब्दानां नास्ति / 'सर्वे साधवोऽसाधवो वा शब्दाः प्रशस्ताः' इति / किं चान्यत्-न केवलं वाक्यभेददोषो भेदाभावदोषश्चापदार्थात्मकश्रुतिभेदोऽपि वृथैवं साध्वसाधुत्वाभ्याम् / एवमिति कारणात्मककार्यवादाभ्युपगमप्रकारेणोक्तमतिदिश्य संक्षिप्य साधनमाह सोदाहरणम्-एकार्थत्वाद् घटकुटवदिति / यथा प्रतीतार्थयोर्घटकुटशब्दयोरेकार्थत्वादन्यतरप्रयोगो वृथा साधुत्वाभिमतयोरसाधुत्वाभिमतस्य गोशब्दमात्रस्य वाचादिसाम्नादिमदर्थे युगपदप्रयुक्ते चैकार्थत्वादर्थभेददोषपरिकल्पना परिश्लथतेऽतिवर्तते / तस्मात् पदवाक्यशब्दयोः साधुत्वासाधुत्वाविशेषाच्छिष्टेतरलोकव्यवहारविशेषः / एवं ते जुहुयादुक्तेः पौनरुक्त्यस्ववचनविरोधौ / स्वशब्दोक्तासत्कार्यवादत्यागः कारणात्मकसकार्यवादाभ्युपगमश्चेत्यप्रतिपूर्णतर्कता सदोषत्वादित्युक्तम् / यद्यप्येतत् त्वयाभ्युपगतं कारणात्मकं सत् कार्यत्वात् , तदप्यसमीक्ष्याबुद्धिपूर्वकमेवोक्तमित्यतस्तत्प्रदर्शनार्थमाह-इदं चाज्ञातमपि सत् त्वया तत्त्वमेवैवं विवेक्तारं प्रति प्रदर्शितं घुणाक्षरवत् , यथा घुणः काष्ठमुत्किरन्नक्षराकारामपि रेषामुत्किरति यदृच्छया तथा त्वयेदं तत्त्वमेवैवं कारणात्मकं सत्कार्यत्वं प्रदर्शितमितिकर्तव्यतैव कर्तव्यतेति ब्रुवता तत् पुनविवेक्तारं प्रति प्रदर्शितमित्थमसत्कार्यं भवतीत्थं सत्कार्यमिति यो वाच्यवाचकसाधनस्वरूपविधिविज्ञस्तं प्रत्येव दर्शितम् / नात्मतुल्यबुद्धीन् प्रति दर्शयन्नपि स्वयं तद्विवेकं न वेच्छति / अथोच्येत-कारणमात्रकार्यदर्शनमिहेत्यादि, यावद्वच१°नुपादः ग। 2 यद्यव ग। 3 श्लाघता ग। 4 यथैवं ग। 5 °थ क-ख /