________________ 122 नयचक्रम् / [हवनक्रियाप्रत्येकमसमाप्ता च कर्तव्यतेतिकर्तव्यतास्तु तथाप्यकारणता प्रत्येकमकारणत्वात् सिकतातैलवत् / इतिशब्दस्यैवमर्थत्वादेवंशब्दस्य च प्रकारार्थत्वादेवं कर्तव्यमिति कर्तव्यं घृतादिप्रक्षेपस्वरूपकर्तव्यता / अतथा तावत् न तथा अतथा / तत्तथात्वं ने प्रामोति प्रत्येकमकारणत्वादित्यतथा तावत् , ननूक्तं शिविकावाहकवहनशक्तिवत् समुदाये सति कर्तव्यताशक्तिरिति / ___ अत्रोच्यते-समुदायस्यापि च तन्मात्रत्वादवयवमात्रत्वात् उक्तवदिति / उक्तं हि तत्त्व एवातथाभूतेस्तथाभूतेर्वेति / अवयवा एव हि समुदायीभवन्तः, नो चेत् सिकतातैलवदेव न स्यात् , तिलसमुदाये तैलमपि / किं चान्यत्-अभिमतविध्यनुवादवैपरीत्यदोषप्रसङ्गश्च / तत्र तावद् घृतेन जुहुयात् पयसा जुहुयादित्यादिवाक्येषु घृतादेर्विधेयत्वाभिमतस्य कारणमात्रस्य हवनकार्यस्यान्यस्य तन्मात्रेतिकर्तव्यतामात्रहवनार्थत्वादग्निहोत्रं जुहुयादित्यत्र श्रुतहवनानुवादाभावोऽपि हवनस्य घृतादिव्यतिरिक्तस्याभावात् , ततश्च घृतादिविधानवत् ज्ञानार्थाभिमतस्य हवनबाह्यस्य विधायकतैव स्थानानुवादकता / अनुवादकता च घृतादेरज्ञातार्थविधायकाभिमतस्यापि कारणमात्रवृत्तित्वाद्धर्वनवदिति / कारणमात्रे वृत्तिरस्य तत् कारणमात्रवृत्ति घृतादिहवनं चोक्तविधिना कार्याभावस्य प्रतिपादितत्वात् / तसात् कारणमात्रवृत्तित्वाद्धवनघृतादेरनुवादकता / घृतादिवद्धर्वनस्य विधायकतेति / एवं चेति विध्यनुवादयोरन्योन्यस्वभावसङ्कराव्यवस्थितात्मस्वभावत्वान्न विधिर्नानुवादोऽस्ति / अत एवमुक्तप्रकारेणावाक्यत्वम् / अनुवादत्वादविधायकस्वाद्विच्छिन्नार्थपदवत् / यथा विच्छिन्नार्थमेकं पदमधिकृतपदार्थान्तरसम्बन्धगामि वैतन्न वाक्यमत एव विध्यनुवादत्वाकाङ्क्षार्थाभावात् , तथाग्निहोत्रं जुहुयात् स्वर्गकामो घृतेन पयसा जुहुयादित्यादीति / यस्यापि पदार्थो नास्त्येव तं प्रति काकरुतवदिति दृष्टान्तः / तथा काकरुतमर्थान्तराकाङ्क्षारहितमवाक्यमविध्यनुवादत्वात् तथेदमपि / ज्ञाताज्ञातविशेषाच्चैवं घटज्ञानवत् / एवमिति कारणमात्रकार्यत्वाभ्युपगमे साधुतासाधुतयोः / साधुता तावद्गौरित्यादेः पदस्याग्निहोत्रं जुहुयादित्यादेर्वाक्यस्य विधेयत्वमनुवादत्वं च नोपपद्यते / शब्दो हि ज्ञातार्थोऽज्ञातार्थो वा प्रयुज्यते / ज्ञातार्थोऽनूंद्याज्ञाता) विधानार्थं प्रयुज्यते / स पुनातार्थः खत एव प्रत्यक्षादिनाप्रमाणेन ज्ञातेऽथै प्रयुज्येत वाक्यान्तरेण वा परेणापितार्थः। यथायं देवदत्त इति / अयं शब्दस्य प्रत्यक्षदृष्टार्थवाचित्वादनूध देवदत्तत्वं विधीयते। वाक्यान्तरवेदिताथोनि वा पदान्यनूद्याभ्याजन विधीयते / देवदत्त ! गामभ्याज १°ने° ग / मेव क। 2 °द्वचनस्य ग। ३°ऽतथा क / न ह्या ख / 4 परेण पितोर्थ क-ख।