________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 121 पित्त्या कारणात्मककार्यवादोऽभ्युपगतः, तयोरन्योन्यविपरीतार्थत्वाविरुद्धत्वाद्विवक्षाभेदो व्याघातश्च / विवक्षाभेदस्तावदसत्कार्यवाचिनः शब्दस्य कारणात्मकका भिधानाभ्युपगमात् / कारणात्मककार्यवाचिनश्चासत्कार्याभिधानाभ्युपगमात् / अत एव च परस्परतो विरोधाद् व्याघातोऽनयोरर्थयोः / 'अर्थद्वयस्य स्वशब्दार्थापत्तिविषयस्याभ्युपगमाद्विवक्षाभेदोऽयं पुरुषबुद्धिवशाद्वेदवादप्रामाण्यमपौरुषेयं व्याहन्तीति विवक्षाभेदव्याघातः / स च त्वया तत्त्वानपेक्षणदोषान्नेक्ष्यते / वस्तुतत्त्वविचारप्रवेषिणो वा कार्यकारणस्वरूपानपेक्षिणोऽपि बलादयं कारणकार्यतत्त्ववाद आपद्यतेऽनेकान्तरूपो वस्तुनस्तादात्म्यात् / अनपेक्ष्यमाणोऽपि स्वमतव्याघातीति / एवं कारणात्मकत्वेऽभ्युपगतेऽपि यदीतिकर्तव्यता जनयतीति इष्यते / ततो न सा कर्तव्यता घृतादिकारणे इतिकर्तव्यताव्यतिरिक्ता काचिदस्ति / ततः सा तजन्या न भवति क्रिया, नात्मनैवात्मानं जनयतीत्यर्थः / कस्मात् ? जनकत्वात् कारणत्वात् पूर्वत्वाद्विधायकत्वान् मातृवत् / यथा माता नात्मानं जनयति / किं तर्हि ? ततोऽन्यां दुहितरं जनयति / एवमियमितिकर्तव्यता जनिका सती तथाकारणत्वात् पूर्वत्वाद्विधायकत्वादिति व्याख्येयानि / वचनवदिति / अत्र यथा वचनमपि नात्मानं जनयति, बुद्धिं तु ततोऽन्यां वाच्यविषयां जनयति / तथेतिकर्तव्यतेति / अथ मा भूदेष दोष इति जनकत्वमसिद्धं तस्या जन्यत्वात् / जन्या हि सेति / / __ अत्रोच्यते-अथ जन्या सा एवं तर्हि न जनिका न कारणं जन्यत्वादित्यजन्यत्वात् कार्यत्वात् / अपूर्वत्वाद्विधेयत्वात् पुत्रादिवदादिग्रहणाद्वाक्यार्थज्ञानवत्, तस्मात् स्वविहितदोषत्वाजन्यत्वे जनकत्वे वा दोषानतिवृत्तरयुक्तमितिकर्तव्यतैव कर्तव्यता / तदनुबन्धादिति / / किं चान्यत्-कारणमात्रत्वे सति कर्तव्यतां प्रतीतिकर्तव्यता परिसमाप्ता वा स्यादपरिसमाप्ता वा ? / तत्र तावद्यदि प्रत्येकमितिकर्तव्यताऽस्तु कर्तव्यतापरिसमाप्ता / ततः प्रतीतिकर्तव्यतासमाप्तेरितिकर्तव्यतान्तरानारम्भः / एकयाँ घृतेन जुहुयादित्यनयैवेतिकर्तव्यतया / तन्मात्रपरिसमाप्तायाः कर्तव्यतायाः कृतत्वात् पयसाद्यसैमाप्त्यादीनामितिकर्तव्यतान्तराणामारम्भो निरर्थकः प्राप्त अनारम्भ एव वा / तस्या अपि कारणं कारणमात्रत्वात् इतिकर्तव्यतेति त्वयैवाभ्युपगतत्वात् / न्यायतश्च घृतादिकारणद्रव्यमानत्वस्य क्रियायाः प्रतिपादितत्वात् , सिद्धौदनपचनवदनारम्भ एव प्राप्तः / एवं तावत् प्रत्येकपरिसमाप्तो दोषः / प्रत्येकत्वसमाप्यं च कारणाभावात्, तथा तावद्यदि शिबिकावाहकाकारणत्ववत् रर्थचार्थ क-ग। 2 न त्वा ग / न वा क। 3 °बोध ग। ४°वाग / ५"प्रत्या' क-ग। 6 प्रति क। 7 प्रत्येष क-ख / न०च०१६