________________ 120 नयचक्रम् / [हवनक्रियाघटो भवतीति प्रतिपद्यस्व स्तिमितसर सलिलवत् तरङ्गवक्तृत्व एवान्यथाभवनानास्तिं तत्रापि क्रम इत्यतस्तदुपदर्शनार्थमाह_मृत्पिण्डघटवदिति / अथवा तत्त्व एवातथाभूतेरिति पाठः। तत्त्व एव तद्भाव एव सति तेन तेन प्रकारेण भवनात् पिण्ड एव मूर्तिस्वभावरूपाद्यात्मके शिबकाद्यात्मना नीलरक्ताद्यात्मना च भवनादिति / अत एव च कारणमात्रमसौ तत्त्व एवातथाभूतेस्तथाभूतेवो कारणं प्रमाणमसो हवनक्रिया घृतादिकारणेभ्यो न व्यतिरिक्ता / उक्तहेतोरसत्कार्याभावात् कारणमात्रमसौ क्रियेति प्रतिपत्तव्यमवश्यम् , न केवलं क्रियैव कारणमात्रं सह फलेनापि सा कारणमात्रं, फलमप्यस्याः स्वगोख्यं सुखादिघृतादिकारणान्यथाभवनमात्रम् / अत्रोपनयहेतू प्रतिपादितार्थावे / तदात्मत्वात् , तन्निवृत्तत्वात् इति / तस्यात्मा स आत्मास्येति वा तदात्मा तेन तस्मिंस्तस्य स एव वा निवृत्तस्तद्भावस्तन्निवृत्तत्वम् , तदात्मत्वं च तस्मात् तदात्मत्वानिवृत्तत्वाद् घटमृद्वत् / घटस्य मृत्त्वं घटमृत्त्वं / मृदेव घटः। घट एव मृद्यथा प्रतिपादितं तत्त्वे एवातथाभूतेस्तथाभूतेर्वेति / तद्वत् तस्मात् कारणमेव क्रिया क्रियाफलं च / एवं तावदप्रतिपूर्णस्तर्कः प्राङ्गासीत् तत्क्रियाकार्यत्वेन परिगृहीतत्वादिति / असिद्धहेतुत्वात् प्रति तर्केण बाध्यत्वाचेति / सुष्टुच्यते / किं चान्यत्-स्वयमेव त्वया परित्यक्तत्वाचाप्रतिपूर्ण एवं / कसात् ? एकान्तवादस्वाभाव्यात् / एवं स्वभावा ह्येकान्तवादाः सर्वोक्तमृषात्ववादवत् / यथोक्तं त्वया तदनुबन्धाचेति कर्तव्यतेति ब्रुवता कारणे कार्यस्य सत्त्वमभ्युपगम्य सत्त्वं च त्यक्तं भवत्यतो न क्रमः इति / कर्तव्यताकर्तव्यताभ्युपगमोस्त्वित्यादि / इतिशब्दस्य प्रकारार्थवाचित्वादित्थमित्थं च कर्तव्यं घृतेन जुहुयात् पयसा जुहुयादित्यादिप्रकारा कर्तव्यतेतिकर्तव्यता सैव कर्तव्यता कारणभूतास्ता एव प्रोक्षणादिक्रिया अग्निहोत्रमित्यभ्युपगमात् पूर्वोत्तरावस्थानुबन्धात् / विच्छिन्नपूर्वोत्तरावस्थस्य कस्यचिदभावात् कारणमेव कार्यम् / सर्पस्फटाटोपमुकुलप्रसारणकुण्डलीकरणवत् / यज्ञोपवीतसूत्रतन्तुत्वपटत्वानुबन्धात् सूत्रमेव यथा यज्ञोपवीताख्यां लभते। तथा समवस्थानात् तथा तन्तव एव पटस्तद्वत्संस्थानमात्रभिन्नस्य कारणस्यैव कायेत्वमित्ययमभ्युपगम आपद्यत इति / इतिशब्दो हेत्वर्थे / एतस्मात् संस्थानामात्रभिन्नकारणकार्यत्वाभ्युपगमापत्तेर्हेतोः कार्यस्य त्यागः / कुर्यादित्ययं, हिशब्दः कार्यार्थे सत्यर्थवान् भवति, नान्यथा / पुनरितिशब्दो हेत्वर्थ / ततश्च कुयोदर्थत्यागात् / खशब्दार्थापत्तिविषयविपरीतार्थत्वाद्विवक्षाभेदव्याघातः / अग्निहोत्रं जुहुयादित्यनेन स्वशब्देनैवासत्कार्यवादोऽभ्युपगतः / तदनुबन्धाचेति / कर्तव्यतेत्य १°दत्त ग / 2 नास्त ग। 3 °चय ग। 4 °र्थत्वे च ग। 5 तत्र एव भवति ग। 6 एवाकरमादेग।