________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 119 त्वात / कुर्याजुहुयादित्यादिवचनात् कार्यत्वेन निवर्त्यत्वेन परिगृहीतैव सा, दृष्टान्तो विशेषकान्तवस्तुवदिति / यथा विशेषकान्तवादिना कार्यमेव न कारणमिति प्रतिक्षणोत्पत्तिविनाशात्मकत्वात् प्रतिपन्नं वस्तु तत्प्राग नास्ति / तच्च त्वयाभ्युपगतम् / क्रियाभ्युपगमादिति त्वां प्रति साध्यसाधनधान्वितो दृष्टान्तः / मयापि च त्वदभ्युपगम्योक्तत्वादिति / साध्यसाधनमेवमनेन तर्केणासत्कार्यवादोऽभ्युपगतस्त्वया भवति / स चाप्रतिपूर्णस्तर्कोऽसिद्धहेतुकत्वात् प्रतितर्केण बाध्यत्वाच्च / ननु तत्त्वमेवं वस्तुनोऽसत्कार्यत्वम् , किं कारणम् ? व्यङ्ग्यत्वात् / व्यङ्ग्यादि सा क्रिया न कार्या / अविवक्षितप्रत्येकसमुदितघृतादिद्रव्यधर्मत्वेनाभिव्यक्तेः / को दृष्टान्तः ? पिण्डकालघटवत् / यथा मृत्पिण्डकाल एव घटो विद्यमानोऽपि साधनान्तरापेक्षाभिव्यक्तत्वात् नोपलभ्यते / शुक्रशोणितावस्थायामिव वा देवदत्तस्तदवस्थाविशेषान्तरत्वे सत्युत्तरकालमुपलभ्यत्वात् / कार्यत्वादेव वा प्रकाश्यघटवदभिव्यञ्जनस्यैव कारणाख्यत्वात् / इतरथा वन्ध्यापुत्रोऽपि क्रियतां सत्कार्यत्वात् घटवत् / एवं तर्हि सत्त्वरजस्तमसां साम्यवैषम्यव्यक्ताव्यक्तता एककारणत्वस्य बाधिका स्यादिति चेन्नेत्युच्यते / कुतस्तत्त्व एवान्यथाभूतेः। न ह्यव्यक्तावस्था नाम काचिदस्ति / किं तर्हि ? तत्त्व एवान्यथाभावोऽस्ति, तस्य भावस्तत्त्वम् / तसिंस्तत्त्व एव तद्भावावस्थायामेवान्यथाभवनात् / तदेव हि वस्तु स्वरूपावस्थायामेवान्यथाभवति / यद्यन्यदन्यथाभवेत् मृत्पिण्डोऽपि पटो भवेत् / न तु भवति, साधर्म्यदृष्टान्तश्च घटस्वात्मवत् / यथा घटो घटस्वात्मन्येव स्थितो नवैः पुराणतयोत्पद्यते / तथा स एव मृत्पिण्डोऽन्यो घटो भवति / न तु सांख्याभिमताव्यक्तता नाम काचिदस्ति / यदि स एव घटो नवः पुराणतयाऽन्यो न भवेत् / न पुराणः सानव एव स्यात् / ततोऽन्यो वा घंटादिः पुराणघटः स्यान्नैव वा कश्चिदपि भवेत् , तस्मात् तत्त्व एव तथाभूते व्यक्तता नाम काचिदस्ति / अत्राह-घटस्वात्मवदित्ययं दृष्टान्त उपपद्यते नवत्वावस्थानन्तरं पुराणत्वावस्थानुभवात् / मृत्पिण्डकालघटवदिति न युज्यते तत्त्व एवान्यथाभावात् / पिण्डानन्तरं हि शिवको भवति / न घटो न स्तूपकच्छत्रकस्थालककोशकुशूलका इति / अत्रोच्यते-तुल्यप्रत्यासत्तित्वात् / यथा घटो भवति कुशूलकात् / तथा कुशूलकः कोशकात् / कोशकः स्थालकात् / स्थालकः च्छत्रकात् / छत्रकः स्तूपकात् / स्तूपकः शिवकात् / शिवकः पिण्डात् / पिण्डो मृद इति / मृद एव तथा तथाभृतेः। अथवा किमनया सांख्यसृष्टिक्रमिकवचनानुमत्या ? तस्यामेव मृत्पिण्डावस्थायां तथा ग। 2 °पटस्वाग। 3 न वा ग। 4 स्वतन्त्र ग। 5 °पग। 6 रनवस्था ग।