________________ नयचक्रम् / 118 [हवनक्रियाअसत्कार्याभ्युपगमप्रदर्शनार्थमाह-एकावस्थामात्रविच्छिन्नेत्यादि, यावत् कुर्यादिति / कारणे कार्यस्यासत्त्वैकान्ताभ्युपगमात् / एकावस्थामात्रविच्छिनपूर्वापरत्वान्यादिभिन्नवस्तुत्वाभिनिवेशविधानाचेति / तच्छब्दाजुहुयादुक्तेश्च एकस्यैवावस्था एका च सावस्था च एकावस्था / तत्परिमाणमेकावस्थामात्रं तिमितसरःसलिलवदविच्छिन्नम् / तस्यैव पुनस्तत्त्वं विच्छिन्नं पूर्वस्यापरस्य बन्धनादेरग्यादेभरमादेर्घटपटादेश्च परविषयसामान्यवादिमतवत् सर्वेक्यापन्नस्य सतोऽन्यादेभिन्नवस्तुत्वेनाभिनिवेशः, तदभ्युपगमेऽग्निरिति परमाणुयणुकादिभूम्यत्वादिसंयोगसम्भूतवनस्पतीभूताग्निभसत्रुटितपरमाण्वादिविच्छिन्नावस्थामात्रत्वे सत्यग्निरिति भवति / क्रमेण परिणामभेदाभ्युपगमात् तस्य विधानादग्निहोत्रं जुहुयादिति च हवनक्रियानुष्ठानं, तत्फलाभिमतः स्वर्गः तयोश्च सम्बन्ध इति परस्परं विघटितत्वान्नोपपद्येत / पूर्वापराभ्युपगमयोः किं कारणं विघटितमिति चेदुच्यते / कारणे कार्यस्यासत्त्वैकान्ताभ्युपगमात् / इति विघटनप्रदर्शनम् / एवं हि कारणे घृतादौ कार्यस्याग्निहवनकर्मणस्तत्कार्यस्य च स्वर्गादेरसत्त्वे सति कारणमुपपद्यते, तच्च सति नोपपद्यते सिद्धौदनपचनवत् / विशिष्टेकाम्याद्यवस्थाभ्युपगमे च पुरुषादिकारणात्मकसवैक्याभ्युपगमविरोधिनि सत्युपपद्यते / नान्यथेति / ___ अत आह-सर्वगतसत्कार्यकारणवृत्तित्वे भेदविधिनिर्विषयत्वात् / सुप्तसुषुप्तजागरितत्वाद्यवस्थं क्रमेणैकमेव युगपद्वा सर्वगतं पुरुषाख्यं कारणम् / तच सत्कार्य सर्वगतं च तत्सत्कार्यकारणं च तदितिविग्रहात् / वक्ष्यमाणविधेर्विधिनयदर्शनेन / तद्वृत्तित्वेनाग्निहोत्रं कुर्यादितिभेदविधेनिर्विषयत्वमन्याद्यभावात् / यथोक्तम् न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः॥२॥ परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति // 3 // तथा 'पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यं उतामृतत्वस्येशानो यदन्ननातिरोहति'(ऋ० वे० मं०१० सू०९०) इत्यादि / एतद्दर्शनं प्रतिपादयिष्यते / अतः सर्ववस्तुसन्निधीत्यादि / सर्ववस्तूनां संनिधौ सद्भूतैव सा हवनक्रिया तथापि भेदाः साधनान्यस्याः। घृतेन पयसा जुहुयादित्यादिभेदक्रिया एवानिहवनक्रियायाः साधनानि / तान्यन्तरेण तदभावात् / साधनासम्बन्धाभिनिवर्येत विधीयते तदन्वनुष्ठात्रापि तदुपदिष्टभेदसाधननिष्पाद्येनाऽभ्युपगम्य यो यो भागो यथाभाग कारकाणां विज्ञाता स आत्मा यस्सा इतिकर्तव्यतायाः सा यथाभागकारकविन्यासात्मिका तथेतिकर्तव्यतया गवालम्भनात् प्रक्षेपादिप्रकाररूपया अनुष्ठीयते सामर्थ्यात् / अतोऽसौ प्राग्नासीदित्याश्रिता, कस्मात् ? कार्यत्वेन परिगृहीत 1 स्वर्ग ग। 2 यश्च तयोवि ग। 3 कैवल्योपनिषदि। 4 अस्या ग /