________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / 117 युज्यतेऽत्यन्तमदृष्टकारणकार्यसम्बन्धत्वादनयोः संभावनयैतदपि कृत्वा कल्पनात्मिकयोक्तमपि न संभवतीति येऽभिहिता दोषास्तत्परिहारमनादृत्य परेण प्रसिद्धमात्रप्रतिपादनार्थमथोच्येत-अस्यास्तावत्प्राप्तेः प्रसिद्धिर्भविष्यतीति। ततो दोषपरिहारो भविष्यतीति / प्राप्तिरिति 'स्त्रियां क्तिन्' (पा.३।३।९४ ) इत्यत्र अयादीनां चेति वक्तव्यम् / 'गुरोश्च हलः' (पा०३।३।१०३) इत्यप्रत्ययेनापवादेन मा भूद्वा चेति प्रापणात् प्राप्तेर्वाक्यान्तरप्रापिता प्रसिद्धिर्भविष्यति / अग्नये होत्रमग्निहोत्रमिति / चतुर्थीसमासो योगविभागादस्वमायुपसंख्यानाद्वा रूपसिद्धिस्तदर्थप्रसिद्धिश्च / ततः करणं तत्फलसम्बन्धश्च / कतुरिति सर्वमुपपन्नम् / कतमसाद्वाक्यात् प्रापिता प्रसिद्धिरिति चेत् वक्ष्यमाणे वाक्यान्तरे यदग्नये प्रजापतये च सायं जुहोतीति / घृतेन पयसा दना जुहुयादिति तदनुबन्धाच्चेति कर्तव्यतैव कर्तव्यता तस्याः प्राप्तवाक्यान्तरमापितायाः अनुबन्धात् सम्बन्धादनुपरताकासादुत्तराः सर्वा इतिकर्तव्यता एव कर्तव्यतास्तासां चेतिकर्तव्यतानां प्रसिद्धिरग्निहोत्रस्य प्रसिद्धिस्तदात्मकस्येति / अत्रोच्यते-न तर्हि पुनर्जुहुयादिति वाच्यं स्यात् अग्निहोत्रशब्देनैवाग्निप्राजापत्यादिसम्प्रदानजुहोत्यादीतिकर्तव्यतेत्युक्तार्थत्वात् / पुनरपि प्रागभिहितो यो नहि कश्चिज्जुहोति पुनर्वचनेनेत्यादिग्रन्थार्थः स एव दोषप्रपञ्चोऽस्मिन्नपि व्याख्याध्वन्युपस्थितः / अपि चैवमित्यादि / किं चान्यत्-अत्रापि पुरुषप्रमाणकवादापत्तिः, किं कारणम् ? उत्तरोत्तरविरोधपरिहारविचारप्राप्यार्थपरिग्रहात् / अग्निहोत्रहवनयोः पौनरुक्त्यादिदोषाद्विरोध इत्युक्तेऽनुवादविधित्वेनेति परिहारः, पुनः प्रसिद्धत्वाद् विरोध इत्युक्ते कुर्यादर्थो जुहुयाच्छब्द इत्येवमादिविचारैः प्राप्योऽर्थोऽन्वयापरिगृहीतोऽतः स्वबुद्धिप्रामाण्यावलम्बनात् पुरुषप्रमाणकस्तर्क आश्रितो भवति / तर्क आश्रितो भवति / तर्कलक्षणं च अविज्ञाततवार्थकारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तके इति किमिव सामान्याद्यथैकान्तवदेव / यथा सामान्यमेव विशेषा एव सामान्यविशेषश्वेत्येकान्तार्थपरिग्रहे प्रागुक्तविधिना पूर्वोत्तरविरोधपरिहारप्राप्योऽर्थोऽशक्यप्राप्तिरफलः पुरुषप्रमाणत्वात् तथायमपि तर्कः स चानिष्टः इत्यपि च तर्कोऽप्रतिपूर्णो यदि न भवताश्रीयेत / किन्तु प्रतिपूर्णः / कस्मात् ? दोषत्रयात् , कतमस्मादोषत्रयात् ? पौनरुक्त्यादेः असत्कार्यवादाभ्युपगमात् / पुनस्तत्त्यागात् / जुहुयादुक्तेः पौनरुक्त्यादिदोषाः प्रागुक्तवत् / वास्यात प्रविता ग। 2 तेनोग। 3 योऽनहि ग। ४°थरन्वग। 5 सामाग्यं विशेषाग। 6 भवेदाश्रीग।