________________ 116 नयचक्रम् / [हवनक्रियाद्रव्यमत्रदेवतादिविशिष्टाभिर्मा भूद्यज्ञसंज्ञायाः क्रियाया एव धर्मत्वम् / यथा कैश्चिन्मीमांसकैरेवं व्याख्यायते-'यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्' (ऋ०१०,९०,१५) इति / किं कारणम् ? तस्मिन्नर्थे प्रत्यक्षत एव नित्यायाः क्रियाया अनन्तरं फलसम्बन्धादर्शनात् / क्रियावैफल्यदोषप्रसङ्गत्वादग्निहोत्रमिति धर्मः क्रियाभिव्यङ्ग्य इत्युच्यते / कार्ये कारणोपचारादग्निहोत्राभिव्यङ्ग्योऽग्निहोत्रमिति / ततोऽग्निहोत्रं धर्म जुहुयाद्भावयेत् स्वर्गकाम इत्येष वाक्यार्थी निर्दोष इत्येवमर्थ स्पष्टीकारयितुं विधिविधिनयः पृच्छति तथा सत्यपूर्वाभिधाने कोऽर्थः कृतः स्यात् ? / अर्थशब्दस्य प्रयोजनाभिधेय. योदृष्टत्वात् / कोऽर्थः साधितः ? किं प्रयोजनम् ? कथं स्यात् ? / कोऽभिधेयः समर्थितः स्यात् ? विधिनयो ब्रवीति-यः स्वर्गकामः स हवनेनेतिकर्तव्यताविशेषेण स्वर्ग भावयेदित्ययमर्थः कृतः साधितः स्यादित्यर्थः / विधिविधिनय आहविद्यापर्यायतत्त्वज्ञानोत्पादनार्थत्वाद् विद्यानिराकरणार्थत्वाच शब्दप्रयोगः / स किमूनीकृतमर्था विद्याया इति न किंचिदूनीकृतमित्यभिप्रायः। तत्समर्थयतियावदेवेत्यादि, यदुक्तं भवति यः स्वर्ग कामयते स जुहुयादिति / तदुक्तं भवत्यपूर्व जुहुयात् स्वर्ग काम इति नापूर्वोऽर्थोऽधिकोऽग्निहोत्रशब्देन लभ्यते। हवनेनैव तस्याभिव्यङ्गयत्वात् / जुहुयात् स्वर्गकाम इत्येतावतैव गतार्थत्वात् / जुहुयाद्धर्म भावयेत् स्वर्गकाम इत्येतस्यां वाक्यार्थव्यक्तौ कोऽग्निशब्देन होत्रशब्देन चार्थः ? इति / अत आह-ततो भावनस्य गतार्थत्वाद्भवन्तं धर्म भावयतो हेतुकर्मसाधनसाध्यस्य धात्वर्थस्य भावनस्य जुहुयाच्छब्दप्रयोगादेव गतार्थत्वान्नार्थः कश्चिदग्निहोत्रमित्यनेन / एवं तावदग्निहोत्रशब्दस्य प्रयोगो निरर्थकः, प्रसिद्धिविरुद्धा चेयं कल्पना लोके वेदे वा / तस्य तदर्थाभावात् अभ्युपेत्याप्यपूर्वविशेषाभिधानमप्रत्यक्षत्वान्निरूपणं हवनेन नोपपद्यत इति ब्रूमः निरूपणवैधात् / इह हि यद् घटादि वस्तु मृदानयनमर्दनादिक्रियया निरूपणार्थं प्रत्यक्षत उपलब्धित्वेन व्यपदिश्यते / अनया क्रियया घटो निर्वर्तते सात् तत् कार्यमिदं कारणमिति दृष्टकारणकार्यसम्बन्धत्वात् / ननु जात्वदृष्टपूर्वस्य साधाद् दृष्टान्ताभावेऽनुमानाभावात् / अत आहन च स प्रत्यक्षोऽपूर्वो यतस्तेन निरूपणमारभ्येत / हवनस्य कार्य तत् इदं चास्य कारणमिति निरूपणं व्याख्येत्यर्थः / सा कथं व्याख्येति चेदुच्यते / येन हवनेन दृष्टापूर्वनिर्वर्तनशक्तिना निर्वोऽग्निहोत्राख्योऽपूर्वो निर्वर्तते तत् तथानुष्ठातव्यं हवनं यथा मृदानयनादिक्रिया घटनिर्वर्तनार्थमिति / तत्र न वर क-ख। 2 ऽस्यास्तत्° क-ख। 3 म्याग। 4 स क-ग /