________________ अपौरुषेयत्वविचारः] न्यायागमानुसारिण्यलङ्कृतम् / गक्रियात्वात् साम्यमेव सेवादिभिः / किं चान्यत्-उत्तरक्रियामात्रत्वाच / यथा सेवाया उत्तरक्रियामात्रत्वमुपस्थानादीनामेवमग्निहोत्रस्याग्निष्टोमादीतिकर्तव्यतानामित्येतदपि न, लोकविदितदानाद्यर्थानुबद्धेतिकर्तव्यतामात्रार्थतापत्तः। एवमपि लोकविदितैर्दानाद्यर्थैरनुबद्धाया इतिकर्तव्यताया योऽर्थस्तन्मात्रार्थत्वमापन्नमग्निहोत्रस्य, लोके ह्यनुग्रहार्थ स्वस्य निसर्गों दानं / संगत्य प्रीत्या दानमस्मिंस्तत्संप्रदानम् / तस्मै दानं यत्र स्वपरानुग्रहो विद्यते तादृशे त्यागो दानम् / न तु यत्र कचन मूत्रपुरीषादिविसर्गवद्रव्यविसर्गः भसनि वा सर्पिःप्रक्षेपवत् , तस्मात् स्वपरोपकारकमेव अग्नौ सर्पिरादिविसर्जनम् / सर्वस्यात्र चैतद्दिष्टं दृष्टं वा ? किं कारणम् ? अग्निसम्प्रदानविरोधात् / तस्याग्नेर्दहनात्मकस्य सर्वद्रव्याणां विनाशकस्य सम्प्रदानत्वविरोधाच्छिन्नपाणेर्मत्स्याभयदानवत् / मुषितस्य वा चौराभयप्रदानदानवत् / अग्नय इति सम्प्रदानविशेषयोर्लोकयज्ञतुल्यत्वादलौकिक एव गृह्यमाणेऽर्थे इदमेवं नैवं चेति विचारो• वा न भवन्ति / यदि भवेच्चतुष्पात्त्वे सत्युत्प्लुत्य गमनाल्लोकमनोहरिणवन्मण्डूकस्तत एव निर्लोमा हरिणो मण्डूकवत् स्यादिति प्रसिद्धिविपरीतं सिध्येल्लोकाप्रामाण्यकरणत इति तत्प्रसक्तमिहापीत्यत आह-न तु लौकिक एव गृह्यमाण इत्याद्युक्तदर्शनवदिति नैवं सेत्यादि / अत्राप्यनिष्टापादनसाधनम् / नैवं सा तथाभूतार्था हवनक्रिया / तदाभत्त्वात् , तदाभत्वमस्याः परमार्थनादानात्मिकापादानत्वेनादानात्तच्च सिद्धम् / यथा बालरमणकादिक्रियायां स्वाद्वन्नादिसंज्ञादिक्रियायामन्योऽन्यदानभोजनादिक्रियास्तदाभा एवमिदमपि दानमन्यै प्रेष इति इदं त्वत्रानिष्टापादनम् / प्रधानादिवादसाधुता च / प्रसिद्धिविपरीतेत्यादि प्रसिद्धेर्विपरीतं तत्त्वं तद्भावस्तत्त्वम् / प्रसिद्धिविपरीते तथैव स्थितोऽर्थोऽस्य वादस्य तद्भावात् सिद्धिविपरीतत्वस्थितार्थत्वाद्वेदवादात् साधुता स्यात् / प्रधानसंसर्गक्षणभङ्गाद्यात्मकादिवादानां प्रधानादिवादानां वा असाधुताभ्युपगमवदुक्तहेतोर्वेदवादात् साधुता वा स्यादित्युभयथाप्यनिष्टापादनम् / अथाग्निहोत्रमित्यादि / अथेत्यधिकारान्तरे / अर्थतेषु विकल्पेष्वग्निहोत्रशब्दस्य क्रियावाचित्वे सर्वथा दोषोत्पादभीतेन परेणाग्निहोत्रमित्यस्यापूर्वविशेपाभिधानार्थग्नैव कल्प्यते / न पूर्वोऽपूर्वः दृष्टो धर्मविशेषः तदभिधानमर्थः प्रयोजनं व्यापारस्तद्भावोऽपूर्वविशेषाभिधानार्थतैव कल्प्यते / विशेषशब्दः परस्परविशिष्टाभिर्यज्ञसंस्थाभिरग्निष्टोमादिभिरिष्टिभिः पवादिभिर्वक्तव्याऽपूर्वापि विशेष्यते / दीनि ग। 2 नैयस्ये ग। 3 वादिनां ग / वादीनां क। ४°वादित्वे ग। ५कल्पते ग। 6 श्राभिर्व्य क-ख।